________________
स्वरेभ्य इति किम् । वाञ्छत्रम् ॥३०॥ *हदिर्हस्वरस्यानु नवा । १।३।३ ॥ स्वरेभ्यः परौ यौ रेफहकारौ ताभ्यां परस्याईस्वरस्य रेफहकारस्वरवजितस्य वर्णस्य स्थाने द्वे रूपे वा भवतः, अनु-यदन्यत्कार्य प्रामोति तस्मिन् कृते पश्चादित्यर्थः । अर्कः। अर्कः । मूर्खः । मूर्खः । स्वर्गः । स्वर्गः। अद्यः। अर्थः। ॐ अर्चा । अर्चा । ब्रह्मा । ब्रह्मा । जिहमः । जिह्मः । बाह्ययम् । बाह्यम् । जिन्ना । निहा । अर्हखास्येति किम् । *पद्महतः । अहः । करः । स्वरेभ्य इत्येव । * अभ्यते। हुते। अन्विति किम् । पोष्णुनाव। अत्र द्विवचने कृते यथा स्यात् ॥३१॥ *अदोर्घाद्विरामैकव्यञ्जने । १ ॥३॥३२॥ *अदीर्घात्स्वरात्परस्य हैसरवजितस्य वर्णस्य स्थाने विरामैकव्यञ्जने विरामेऽनयुक्तव्यञ्जने च परेऽनु दे रूपे वा भवतः । त्वक् । त्वक् । त्वम् । त्वम् । षट् । षट् । पड्ड् । पडू । तत्त् । तत् । तत् । तद् । एकव्यञ्जने । दद्ध्यत्र । दध्यत्र । पत्थ्यदनम् । पथ्यदनम् । मद्ध्वत्र । मध्वत्र । पित्रर्थः । पित्रर्थः । त्वङ्मधुरा । त्वङ्मधुरा । त्वङ् करोषि । खङ्करोषि । *सय्यतः । सय्यतः । उर ५५ कः । उरकः । उपः । उर २८पः । उराकः । उरकः । श्गो ३त्रात । गो३त्रात । नौ ३त्रात । नौ ३त्रात । अन्वित्यधिकारात्कत्वगत्वादिषु कृतेषु पश्चाद् द्वित्वम् । अदीर्घादिति किम् । वाक् । भवान् । सूत्रम् । पात्रम् । नेत्रम् । हौत्रम् । विरामैकव्यञ्जन इति किम् । इन्द्रः। चन्द्रः । कृत्स्नम् । मृत्स्ना। उष्ट्रः । दधि। मधु ॥ *संयुक्तव्यजनेऽपीच्छन्त्येके । पञ्तम् । पतम् । अर्हस्वरस्येत्येव । चर्या । दह्यम् । तितउ। अत एवादेशवलासं
कत्ये अनेन वा द्वित्वम् । औणादिकेऽः प्रथममेव कस्य द्विरूपत्वान्नानने द्वित्वम् ॥ यहिर्जातम् ' यहिषष्ठीकण्च' ज्य । यदा तु बहिर्भव तदा 'गम्भीरपश्च' इति ज्य ॥-पनहद इति । हा
दते इत्यच् पृषोदरादित्वात् हस्व । नन्वत्र द्विते कृतेऽपि ‘रो रे लग्'-इत्यनेन रलोषे सति न किचिद्विनत्यति । सत्यम् । यद्यत्र वर्जन न स्यात् तदोत्तरसूत्रेऽपि वर्जनाभावेऽर्ह इत्यत्रौत्तरेण * द्विते रोरे लुकि आई इति अनिष्ट रूप स्यादिति ॥ ननु कर इत्यत्र द्विते कृतेऽपि 'लगस्य-इत्यादिनास्य लुक भविष्यति किं स्वरवर्जनेन । सत्यम् | चारु दारु वारीत्यादी चारु दारू वारीत्या- *
धनिष्ट भवेदिति स्वरवर्जनम् ॥-प्रोणुनावेति । अत्रान्वित्यत्याभावे सत्यन्तरङ्गत्वात् द्वित्वे कृते पश्चात् परोक्षानिमित्तत्वेन बहिरङ्ग द्विर्वचन स्यात् । ततश्च प्रोणुनावेत्यनिष्टरुपापत्ति । ननु द्वित्व कृतमपि निमित्ताभावे-इति निवर्त्यति किमनुग्रहणेन । सत्यम् । अनुग्रहणादेवाय न्यायोऽनित्य इति । यद्वा नाय सार्वत्रिको न्याय कुम्भकारस्य विनाशे घटस्य दर्शनात् ॥-अदीयात् ॥ अदीर्घारिति पर्युदासात् अनुवृत्तस्य स्वरस्य विशेषणामत्याह-अदीर्घात् स्वरादिति । अथ सयोगान्तलोपो माभूत् त्वा इत्यत्र प्रथमककारस्य 'सयोगस्यादी'-इति लुकस्मान भवति । न च वाच्यमय द्विखादेशोऽनर्थक इति, अन्यत्र द्वित्वश्रुतेश्वरितार्थत्वात् इति । सत्यम् । अईस्वरम्येति होपादानात् व्यक्ति पदार्थ आश्रीयते । तत्र च ककारविषयस्य द्वित्वस्यानर्थक्य मा भूदिति न भवति । ननु ‘लि लौ' इति सूत्रे द्विवचनेनेद ज्ञापितम् यथा सानुनासिकस्यापि निरनुनासिक एवादेश इति तत् कथ सानुनासिको यकार सय्यत इत्यत्रेति । सत्यम् । स एव सानुनासिको यकारी द्विरूपो भवति न स्वयं भिन्न आदेश क्रियत इति सानुनासिक एव भवतीति । एकयापि चार्धकलया द्वावपि वकारौ सानुनासिको ज्ञायते सानुनासिकयकारस्यैव द्वित्वापन्नत्वादिति एकैव कलोदाहरणे ॥-गोत्रात । गाव एन प्रासरिनिति 'तिक्कृती नाम्नि' इति त ॥--इच्छन्त्येके इति । इन्द्रगोमिचन्द्रप्रभृतय । त्रियते इति वर्या । 'वोपसर्य-इति व । अत्र द्विवे कृते रलोये च वार्येति स्यात् । डउ