________________
श्रीहेमा
प०अम्ल
पौत्रो गार्यः । अस्त्रीत्येव । स्त्री गार्गी ॥ ४॥ युववृद्ध कुत्साचे वा ॥६॥१॥५॥ युवा च वृदं चापत्यं यथासंख्यं कुत्सायामर्चायां च विषये युवसंज्ञं वा * भवति । यूनः कुत्सायां पक्षे युवत्वं निवत्यते तत्र वृद्धमत्ययेनाभिधानं भवति । गार्ग्यस्यापत्यं युवा कुत्सितो गार्ग्यः गाायणो वा जाल्मः । गुर्वायत्तो भूत्वा स्वतन्त्रो
यः स एवमुच्यते । कुत्साया अन्यत्र गाायण एव । वृद्धस्य चार्चायां पक्षे युवत्वं प्राप्यते । तत्र युवप्रत्ययेनाभिधानं भवति । गर्गस्यापत्यं वृद्धमर्चितं तत्रभवान् गाायणः गार्यो वा । अर्चाया अन्यत्र गाये एव । अस्त्रीत्येव । गर्गस्यापत्यं पौत्रादि स्त्री गार्गी ॥५॥ संज्ञा दुर्वा ॥६॥१॥६॥ या संज्ञा संव्यवहाराय हगन्नियुज्यते
सा दुसंज्ञा वा भवति । देवदत्तीयाः । देवदत्ताः । सिद्धसेनीयाः । सैद्धसेनाः । दुप्रदेशाः 'दोरीयः' (६-३-३१) इत्यादयः ॥ ६॥ अत्यदादिः॥६॥१॥ | ७॥ सर्वाधन्तर्गतास्त्यदादयो दुसंज्ञा भवन्ति । त्यदीयम् । तदीयम् । यदीयम् । इदमीयम् । अदसीयम् । एतदीयम् । एकीयम् । द्वीयम् । युष्मदीयम् । अस्मदीयम् । किमीयम् । त्यादायनिः । यादायनिः॥७॥ श्वृद्धिर्यस्य स्वरेष्वादिः ॥ ६॥१८॥ यस्य शब्दस्य *खरेषु मध्ये आदिः स्वरो वृद्धिसंज्ञो भवति स शब्दो दुसंज्ञो भवति । आम्रगुप्तायनिः । शालगुप्तायनिः । आम्बष्ठ्यः । शालीयः । मालीयः । ऐतिकायनीयः। औपगवीयः । वृद्धिरिति किम् । दत्तस्येम दाताः । अत्र स्वरेवा| दिः अकारोस्तीति दुसंज्ञा स्यात् शालीया इत्यादिषु तु न स्यादिति वृद्धिग्रहणम् । यस्येति संज्ञिनिर्देशार्थम् । अनेन हि स इत्याक्षिप्यते । स्वरेष्विति व्यञ्जनानपेक्षया बुदिसंनिकृष्टस्वरसंनिवेशापेक्षमादित्वं यथा विज्ञायतेत्येवमर्थम् । तेन व्यञ्जनादेरपि दुसंज्ञा सिद्धा भवति । आदिरिति किम् । सभासन्नयने भवः साभासंनयनः ॥ ८॥
एदोद्देश एवेयादौ ॥ ६ ॥ १ ॥९॥ देश एव वर्तमानस्य यस्य शब्दस्य स्वरेष्वादिः स्वर एकार ओकारो वा भवति स यादौ प्रत्यये विधातव्ये * दुसंज्ञो भवति । सैपुरिका । सैपुरिको । स्कौनगरिका । स्कौनगरिकी । सेपुरं स्कोनगरं च वाहीक्यामौ । देश इति किम् । *दैववाचकं नन्धध्ययनम् । * एवकारोऽन्यत्र वृत्तिव्यवच्छेदार्थः । तेन देशेऽन्यत्र च वर्तमानस्य न भवति । क्रोर्ड नामोदग्ग्रामस्तत्र भवः क्रौडः । देवदत्तं नाम वाहीकग्रामस्तत्र भवो
॥-पौत्रो गार्ग्य इति । गर्गस्पापत्यमनन्तरमपि वृद्धत्वोपचारात् गाय॑स्तस्पापत्यं युवेति कूते गाायण इति प्राप्नोति तन्त्र भवति ॥-युववृद्धम्-॥-युवत्वं निवर्त्यत इति । 'वश्यज्याय - इत्यनेन नित्य प्राप्तम् ॥-संज्ञा दुर्वा ॥ सज्ञायतेऽनया स्थादित्वात्क । बाहुलकात् स्त्रीत्वम् । संज्ञान वा । 'उपसर्गादात ' इत्पम् ॥ त्यदादिः ॥ भवदन्यौदाहृत इत्यस्माभिरपि नोदाहत प्रयोगस्तु भावतापनि ॥ वृद्धिः--स्वरेष्विति । स्वरौ च स्वराश एकशेपे । शालाया भवो जातो वा 'दोरीय ॥-आम्बष्ठ्य इति । आम्बताना राष्ट्रस्य राजा । आम्बष्ठस्य राज्ञोऽपत्यं वा। 'दुनादि-इति भ्य ॥-ऐतिकायनीय इति । इतिकस्यापत्यं दृद्ध नाथायनण् । तस्य च्छात्र इति कृते 'गोत्राददण्ड ' इत्यकम् न शिष्यवर्जनात् । ततो दोरीय । एवमौपगवीय ॥-अकारो| ऽस्तीति । स्वरेषु हि आदौ अकार स चात्रास्ति शालीया इत्यादिषु तु आदिस्वरोऽकारो नास्ति किन्तु द्वितीय आकार इति न स्यात् ॥-पदो-॥-ईयादाविति । 'ईय. स्वसश्च । 'जातेरीय सामान्यवति ' इत्यादेरीयस्य न ग्रहस्तेषु दुसज्ञानिवन्धन कार्याभावात् । सैपुरिकेति । सिन्वन्तीति विच् गुण सया पुर सेपुर तत्र भवा 'च्यादिभ्यो णिकंकणौ' इत्यधिकारे 'बाहीकेषु ग्रामात् ।।दैववाचकमिति । देवान् वक्ति बाटुलकात् णक । देववाचकेन कृत प्रोक्त वा कृते तेन प्रोक्त वा अण् ॥ अवश्य नन्दतीति ‘णिन्चावश्यक'-इति णिन् । नन्दिनोऽध्ययन नन्दन्ति भव्य
॥