________________
श गम्यमानयोर्धातोः सप्तपी भवति । अश्रद्धामर्पयोर्भविष्यन्त्याः क्षेपे तु सर्वविभक्तीनामपवादः। धिग् गर्हामहे यच तत्रभवानस्मानाक्रोशेत । यत्र तत्रभवानस्मानाक्रोशेत । न श्रद्दधे न क्षमे यच तत्रभवान् परिवादं कथयेत् । यत्र तत्रभवान् परिवादं कथयेत् । अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपचिभर्वति । धिग् गर्हामहे न श्रदधे न क्षमे यच्च यत्र वा तत्रभवानस्मानाक्रोक्ष्यत् । पक्षे आक्रोशेत् । भविष्यति तु नित्यम् । धिम् गर्हामहे न श्रद्दधे न क्षमे यच्च यत्र वा तत्रभवान् परिवादमकथयिष्यत् ॥ १८॥ चित्रे ॥५।४ । १९॥ चित्रमाश्चर्यम् । तस्मिन्गम्यमाने यच्चयत्रयोरुपपदयोर्धातोः सप्तमी भवति । सर्वविभक्त्यपवादः । चित्रमाश्चर्यमद्भतं विस्मयनीयम् यच तत्रभवानकल्प्य सेवेत । यत्र तत्रभवानकल्प्यं सेवेत । अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति । चिनं यच यत्र वा तत्रभवानकल्प्यमसेविष्यत । पक्षे सेवेत । भविष्यति तु नित्यम् । चित्रं यत्र यत्र वा तत्रभवानकल्प्यमसेविष्यत ॥ १९ ॥
शेपे भविष्यत्ययदौ ॥५।४।२० ॥ शेषे यचयत्राभ्यामन्यस्मिन्नुपपदे चित्रे गम्यमाने धातोभविष्यन्ती विभक्तिर्भवति अयदौ यदिशब्दश्चेन्न प्रयुज्यते । सर्वविभक्त्यपवादः । चित्रमाश्चर्यमन्धो नाम पतमारोक्ष्यति । वधिरो नाम व्याकरणं श्रोष्यति । मृको नाम धर्म कथयिष्यति । अत्र सप्तमीनिमित्वं नास्तीति न क्रियातिपत्तिः । शेष इति किम् । यच्चयत्रयोः पूर्वेण सप्तम्येव । अयदाविति किम् । आश्चर्य यदि स भुञ्जीत । चित्रं यदि सोऽधीयीत। अत्र अश्रद्धाप्यस्तीति
जातययदायदौ सप्तमी' (५-४-१७ ) इत्यनेन सप्तमी ॥ २०॥ सप्तम्युताप्योबोढे ॥५।४ । २१॥ बाढेऽर्थे वर्तमानयोरुताप्योरुपपदयोधातोः।। सप्तमी भवति । सर्वविभक्त्यपवादः । उत कुर्यात् । अपि कुर्यात् । बाढं करिष्यतीसर्थः । वाढ इति किम् । उत दण्डः पतिष्यति । अपिधास्यति द्वारम् । प्रश्नः | पिधानं च यथाक्रमं गम्यते । वोतात्यागिति निवृत्तम् । इतः प्रभृति सप्तमीनिमित्ते सति भूते भविष्यति च क्रियातिपतने नित्यं क्रियातिपत्तिः। उताकरिष्यत् । अप्यकरिष्यत् ॥ २१ ॥ संभावनेऽलमर्थे तदानुक्तौ ॥५॥४॥ २२ ॥ अलमोऽर्थः सामर्थ्य तद्विपये संभावने श्रद्धाने गम्यमाने तदर्थस्यालमर्थार्थस्य शब्दस्थानुक्ताचप्रयोगे धातोः सप्तमी भवति । सर्वविभक्यपवादः । शक्यसंभावने, अपि मासमुपवसेत् । अपि पुण्डरीकाध्ययनमहाधीयीत । अपि स्कन्दकोद्देशं यामेनाधीयीत । अशक्यसंभावने, आपि शिरसा पर्वतं भिन्यात् । अपि खारीपाकं भुजीत । अपि समुद्रं दोभ्यो तरेत् । अलमर्थ इति किम् । निदेशस्थायी मे जिनदत्तः प्रायेण गमिष्यति । तदर्थाचुक्ताविति किम् । वसति चेत् सुराष्ट्रेपु वन्दिष्यतेऽलमुज्जयन्तं, शक्तश्चैत्रो धर्म करिष्यति । अत्र सप्तमीनिमित्तमस्तीति भूते भविष्यति च | क्रियातिपतने नित्यं कियातिपत्तिर्भवति। आप पर्वत शिरसाऽभेत्स्यत् । तथा काकिन्या हेतोरपि मातुः स्तनं छिन्यात इत्यत्र 'क्षेपेऽपिजात्वोवतमाना'
( ५-४-१२ ) इति वर्तमानां बाधित्वा चित्रमाश्चर्यमपि शिरसा पर्वतं भिन्दादित्यत्र तु 'शेषे भविष्यन्त्ययदौ (५-४-२० ) इति भविष्यन्तीं च १४. अश्रद्धाम । इति प्राप्ताया -1-चित्रे॥-सर्वविभक्त्यवाद इति । कालस्याऽनिर्देशात् विष्वपि कालेष्वस्त्र प्रवर्त्तनात् ॥-शेषे भविष्य-1-पूर्वेण सप्तम्येवेति । RRI'चिने 'इत्यनेन -अश्रद्धाप्यस्तीति । न केवल यदिशब्दयोगः ॥-सहायुताप्यो-॥-बाढ करिष्यतीति । एवमन्या अपि विभक्कयो द्रष्टव्याः । सन्निहितत्वाच भविष्यन्त्येव दर्शिता
eeeeer