________________
LOCKX*
किमः शसन्तस्यानुकरणम् । द्विरुक्तस्य कानः कानि परे सकारान्तादेशो भवति, अनुस्वारानुनासिकौ च पूर्वस्य । काँस्कान् । कांस्कान् । द्विरिति किम् । कान् कान् पश्यति । अत्रैकः किं मन्यस्तु क्षेपे । कानीति किम् । कस्कान् पश्यति । *रस्याधिकारेणैव सिद्धे सविधान रुत्वबाधनार्थम् ॥ ११ ॥ *स्तटि समः | १ | ३ | १२ || समित्येतस्य स्लटि परे सकारोऽन्तादेशो भवति, अनुस्वारानुनामिकौ च पूर्वस्य । संस्स्कर्ता । संस्कर्ता । संस्कर्तुम् । संस्स्कर्तुम् । स्सटीति किम् । संकृतिः । *संचस्कारेत्यत्र तु व्यवधानान्न भवति । सम इति किम् । उपस्कर्ता ॥ १२ ॥ *लुक् । १ । ३ । १३ ॥ समित्येतस्य सटि परे लुगन्तादेशो भवति । पृथग्योगादनुस्वारानुनासिकौ च पूर्वस्येति निवृत्तम् । सस्कर्ता । सस्कर्तुम् । केचिचत्राप्यनुनासिकमिच्छन्ति । संस्कर्ता । सॅस्कर्तुम् ॥ १३ ॥ *तौ मुमो व्यञ्जने स्वौ । १ । ३१४ || मोगमस्य पदान्ते वर्तमानस्य च मकारस्य व्यञ्जने परे तस्यैव स्वौ *तात्रनुखारानुनासिकौ वर्णों पर्यायेण भवतः । मग्रहणेनैव सिद्धे मुग्रहणमपदान्तार्थम् । स्वेत्यनुनासिकस्य विशेषणं, नानुस्वारस्यासंभवात् । चंक्रम्यते । चङ्क्रम्यते । चंचूर्यते । चञ्चूर्यते ।
द्विरिति कान्सत्कभवनक्रियापेक्षया क्रियाविशेषणमिदम् ॥ अधात्र सकारे कृते 'सो रु' इति रुत्व कथ न भवतीत्याह - रस्येत्यादि । अयमर्यो यदि सस्य रुत्व स्यात् तदा रेफाधिकारेणैव सिद्धम् सविधानेन । प्रक्रियागौरव च परिहत भवति ॥ अथात्रानुस्वारस्य व्यञ्जनत्वात् 'पदस्य' इति सयोगान्तलोप कथ न भवति । नैवम् । तत्र मुख्यव्यञ्जनसयोगस्यैवाश्रितत्वात् । अस्य तु सामर्थ्यप्रापितत्वेनामुख्यव्यञ्जनत्वात् ॥ स्सदि ॥ सम इति प्रादिपठितस्यैव समो ग्रहणम् नतु पम् ष्टम् वैक्लव्ये इत्यस्य विजन्तस्य 'सस्स्कृते भक्ष्ये' इत्यादिज्ञापकात् ॥ अनुस्वारस्य व्यञ्जनत्वात् 'धुटो घुटि स्वे वा' इति पक्षे सकारलोपे द्विसकारमेकसकार च सस्कर्ता सस्स्कतेति रुपद्वय द्रष्टव्यम् । सकृतिरित्यत्र गर्गादिपाठात्सद् न ॥ सचस्कारेति । न चात्र सम् एक इति स्थिते प्रत्ययोत्पत्ते प्रागेवादेशप्रसङ्ग इति वाच्यम् । यतोऽत्र परत्वान्नित्यत्वादातुमात्राश्रयेणान्तरगत्वाच्च प्रथममेत्र प्रत्ययस्ततस्तदाश्रित कार्य द्वित्वम् तेन च सटो व्यवधानमिति । ननु 'अघोषे शिट ' इति लुप्तस्य सस्य ‘स्थानीव' – इति स्थानित्वे सति कय न भवति, न च वाच्यमवर्णविधी स्थानित्वमिति, स्सटीति वर्णसमुदायाश्रयणेनावर्णविधित्वात् । न । स्सडिति सकारादि सद् स्तद् इति कृते वर्णविधित्वात् ॥ ननु 'निमित्ताभावे ' - इति न्यायेन द्वित्वेन समो व्यवधानात् कृग सदभाव प्राप्नोति । नैवम् । स्वाङ्गमव्यवधायकमिति न्यायात् द्वित्वरूपस्य स्वागस्य कृग प्रति व्यवधायकत्वायोगादिति ॥ - लुक् ॥ ननु पृथग्योग किमर्थं पूर्वसूत्र एव लुगुच्यताम् । न च वाच्य लुकपक्षेऽपि अनुस्वारानुनासिको स्याता सकारप्रतिबद्धत्त्वात्तयोस्तन्निवृत्तौ न प्रवृत्ति । नैवम् । अनुस्वारानुनासिको कार्यप्रतिद्धावेव विज्ञायेते लुचोऽपि कार्यतया तत्प्रतिवद्धतया लुकपक्षेऽपि स्याताम् इत्याह - पृथग्योगादिति ॥ - तौ मु- ॥ ननु तोग्रहण किमर्थम् स्वाविति विशेषणस्य विशेष्यसापेक्षत्वात् समानाधिकरण अधिकारानुविद्धौ अनुस्वारानुनासिकाचेवानुवर्त्यत । सत्यम् । तौग्रहणमवधारणार्थम् । अन्यवाऽनन्तरोक्ता लुगनुवर्तेत पूर्वस्येति च । ततश्च मुमलुग्भवति पूर्वस्य चानुस्वार, चक्रम्यते इत्यादौ निमितभूतवर्णापेक्षया पूर्वस्याकारादे स्थानेऽनुनासिकचेति सूत्रार्थेऽनिष्ट रूप चक्रम्यत इत्यायापयेत । तौग्रहणात् तु तावेवेति नियमितावनुस्वारानुनासिकावनुवर्तेत । तच्छब्दस्य पूर्ववस्तुपर्शित्वेऽपि सकारलुको स्वत्वासभवात, अनुनासिकस्य च सभवात् तस्यैव परामर्श द्विवचनोपादानात् तत्प्रतिवद्वस्यानुस्वारस्य चेत्याह - ताविति ॥ मन ॥ मनयवला परे यस्मादिति बहुमीहिर्न तु तत्पुरुष
XXXX