SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ camereeMerceredaareeniend क्रियातिपत्तिः॥५।४।९॥ सप्तम्या अर्थो निमित्तं हेतुफलकथनादिका सामग्री । कुतचिद्वैगुण्यात क्रियाया अतिपतनमनभिनिवृत्तिः क्रियातिपत्तिः । तस्यां || सत्यामष्यत्यर्थे वर्तमानाद्धातोः सप्तम्यर्थे क्रियातिपत्तिविभक्तिर्भवति । दक्षिणेन चेदयास्यन्न शकटं पर्याभविष्यत् । यदि कमलकमाहास्य॑न्न शकर्ट पयोभविष्यत् । [१] अत्र दक्षिणगपनं कमलकाहानं च हेतुरपर्याभवनं फलम् तयोः कुतश्चित्ममाणाद्भविष्यन्तीमनभिनिवृत्तिमवगम्यैवं प्रयुङ्क्ते । एवमभोक्ष्यत भवान् घृतेन यदि मत्समीपमागमिष्यत् । स यदि गुरूनुपातिष्यत शास्त्रान्तमगमिष्यत् ॥ ९॥ भूते ॥५।४।१०॥ भूतेऽर्थे वर्तमानाद्धातोः क्रियातिपत्तौ सत्याम् सप्तम्यर्थे क्रियातिपत्तिविभक्तिर्भवति । 'सप्तम्युनाप्योढेि-५-४-२१) इत्यारभ्य सप्तम्यर्थेऽनेन विधानम् । ततः पा 'बोतात पाक्'-(५-४-११) इति विकल्पो वक्ष्यते । दृष्टा मया भवतः पुत्रोऽन्नार्थी चक्रम्यमाणः अपरश्चातिथ्यर्थी यदि स तेन "दृष्टोऽभविष्यत् *उताभोक्ष्यत अध्यभोक्ष्यत न तु दृष्टोऽन्येन पथा गत इति न भुक्तवान् ॥१०॥ है, *वातात् प्राक् ॥५।४।११ ॥ सप्तम्यताप्योबाढे(५-४-२१) इत्यत्र यदतशब्दसंकीर्तनं ततः प्राक् सप्तमीनिमित्त क्रियातिपत्तौ सयां भूतेऽर्थे वर्तमानाद्धातोवों क्रियातिपत्तिर्भवति । कथं नाम संयतः सन्ननागादे तत्रभवान् आधायकृतम असेविष्यत धिग गर्हामहे । वावचनाद्यथामाप्तं च । कथं सेवेत धिंग गहोमह । उतात मागिनि किम् । कालो झ्यदभोक्ष्यत भवान् । भूत इत्येव । एष्यति नित्यमेव ॥ ११ ॥ क्षेपेऽपिजात्वोवर्तमाना ॥ ५।४ । १२ ॥ भूत इति निवृत्तम् ।। क्षेपो गहों तस्मिन्गम्यमानेऽपिजावोरुपपदयोर्धातावर्तमाना विभक्तिर्भवति । कालसामान्ये विधानात्कालविशेपे विहिता अपि प्रत्ययाः परसादनेन वाध्यन्ते । आप तत्रभवान् जन्तून हिनस्ति । जातु तत्रभवान् भूतानि हिनस्ति । अपि संयतः सन्ननागाढे तत्रभवानाधायकृतं मेवते धिग् गहामहे । इह सप्तमीनिमित्ताभावात् क्रियातिपतने क्रियातिपत्तिोंदाहियते ॥ १२ ॥ कथमि सप्तमी च वा ॥ ५।४।१३ । कथंशब्दे उपपदे क्षेपे गम्यमाने धातोः सर्वेषु कालेषु सप्तमी चकारादतेमाना च विभक्ती वा भवनः । वावचनाद्यधामाप्तं च । कथं नाम तत्रभवान् मांस भक्षयेत् । मांस भक्षयति । धिग् गोमहे अन्याय्यमेतत् । पक्षे अघभक्षत् । अभक्षयत् । भक्षयांचकार । भक्षयिता । भक्षयिष्यति । अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति । कथं नाम तत्रभवान् मांसमभक्षयिष्यत् । भक्षयेत् । भक्षयति । अवभक्षत् । अभक्षयत् । भक्षयांचकार । भविष्यति तु क्रियातिपतने नित्यमेव क्रियातिपत्तिः । कथं नाम तत्रभवान्मांसमभक्षयिष्यत् । न तु वर्तमानासप्तमीभविष्यन्तीश्वस्तन्यः । क्षेप इत्येव । कथं नाम तत्रभवान्साधूनपूपुजत् । एवं यथामाप्ति वर्तमानादयो भवन्ति ॥ १३ ॥ किंवृत्ते सप्तमीभविष्यन्त्यौ ॥ ५॥ ४ ॥ १४ ॥ किंठत्ते उपपदे क्षेपे गम्यमाने धातोः सप्तमीभविष्यन्त्यौ भवतः । सर्वविभक्त्यपवादः । किं तत्रभवाननृतं ब्रूयात् । कि तत्रभवान् अनृतं ॥-भूते ॥-दृष्टोऽभविष्यदिति । अत्राश्रद्धाया गम्यमानत्वात् । जातुयद्यदा'-इति सप्तमीनिमित्तत्वम् ॥-उताभीक्ष्यतेति । सप्तम्युताप्योांडे ' इति सप्तम्मर्थः ॥-चोतात्मा-॥-आधायकृतमिति ।। अव्ययं प्रवृद्धादिमि.' इति स. ॥ असेविष्यतेति । कथमि सप्तमी च या' इति सप्तम्यर्थ ॥-योक्ष्यतेति । अन । सप्तमी यदि । इति सप्तम्यर्थता ततो भूते क्रियातिपत्तिा ॥-क्षेपेपिजा--भूत इति निवृत्तमिति । क्रियातिपत्तिसबद्धनात् भूतस्य . .
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy