________________
॥ अथ तृतीयः पादः ॥
*वस्र्त्स्यति गम्यादिः ॥ ५ । ३ | १ || गम्यादयः शब्दा वत्स्यति भविष्यति धात्वर्थे इन्नादिमत्ययान्ताः साधवो भवन्ति । अनेन * सामान्यतः सिद्धानां प्रत्ययनां भविष्यद्धात्वर्थता विधीयते । गमिष्यतीति गमी ग्रामम् । इन्नौणादिकः सति प्राप्तो वत्स्यति भवति । आगामी । भावी । प्रस्थायी । एभ्य औणादिको णिन् । प्रयायी । प्रतियायी । प्रतिबोधी । प्रतिरोधी । एभ्योऽजातेः शीले आवश्यके वा णिन् सिद्धो भविष्यति नियम्यते । कथं श्वो ग्रामं गमी । भविष्यत्सामान्ये पदं निष्पाद्य पश्चाच्छ्वः शब्देन योगः कार्यः ॥ १ ॥ वा हेतुसिद्धौ क्तः ॥ ५ । ३ । २ ॥ हेतुः कारणं तस्य सिद्धिः निष्पत्तिः वर्त्यसर्थे वर्तमानाद्धातोः धात्वर्थे हेतोः सिद्धौ सत्यां क्तः प्रत्ययो वा भवति । किं ब्रवीषि दृष्टो देवः संपन्नास्तर्हि शालयः । संपत्स्यन्त इति वा । प्राप्ता नौस्तीर्णा तर्हि नदी । तरिष्यत इति वा ॥ २ ॥ *कषोऽनिटः || ५ | ३ | ३ || कपेः कृच्छ्रगहनयोरनित्यमुक्तम् । तस्माद्वर्त्स्यति वर्तमानात् क्तो भवति । कपिष्यतीति कष्टम् । कष्टा दिशस्तमसा । सत्यपि कञ्चित् । कपति कष्टम् । अनिद इति किम् । कपिताः शत्रवः शुरेण ॥ ३ ॥ भविष्यन्ती || ५ | ३ | ४ ॥ वर्त्यत्यर्थे वर्तमानाद्धातोः परा भविष्यन्ती विभक्तिर्भवति । गमिष्यति । भोक्ष्यते ॥ ४ ॥ अनद्यतने श्वस्तनी ॥ ५ । ३ । ५ । न विद्यतेऽद्यतनो यत्र तस्मिन्वत्र्त्स्यति धात्वर्थे वर्तमानाद्धातोः श्वस्तनी विभक्तिर्भवति । कर्ता श्वः । कर्ता । अनद्यतन इति बहुव्रीहिः किम् । व्यामिश्रे माभूत् । अद्य श्वो वा गमिष्यति । कथं श्वो भविष्यति । मासेन गमिष्यति । पदा
'
भविष्यन्ती पश्चात् शब्देन योगः ॥ ५ ॥ परिदेवने ॥ ५ । ३ | ६ || परिदेवनमनुशोचनम् । तस्मिन्गम्यमाने वत्स्र्त्स्यति धात्वर्थे वर्तमानाद्धातोः श्वस्तनी विभक्तिर्भवति । अनद्यतनार्थ आरम्भः । इयं तु कदा गन्ता यैवं पादौ निदधाति । अयं तु कदाध्येता य एवमनभियुक्तः । विशेषविधानात् कदा कहिलक्षणा विभाषा बाध्यते ॥ ६ ॥ +पुरायावतोर्वर्तमाना ॥ ५ । ३ । ७ ॥ पुरायावतोर्निपातयोरुपपदयोर्वत्स्र्त्स्यति धात्वर्थे वर्तमानाद्धातोर्वर्तमाना विभक्तिर्भवति । पुरा भुड् वृत्र्त्स्यति ॥ - सामान्यतः सिद्धानामिति । ननु गमेरिन्नित्यादीना सत्यधिकारे विहितत्वात् कथ सामान्यतः सिद्धता । सत्यम् । एकदेशेन । गम्यादिगणे हि प्रयांयीत्यादौ 'भजातेः शीले' इत्याद भिर्णिन् । ते चानिर्दिष्टकालत्वात् सामान्यतः सिद्धा । उणादिप्रत्ययानां सत्यर्थे विधानात् अप्राप्तौ वर्त्यत्यर्थे विधि । अन्येषां च सामान्यविधानात् वर्यस्येवेति नियम इति सिद्धम् ॥ कथमिति । अनद्यतने श्वस्तनी प्रामोति न निचित्याशार्थ ॥ कवोऽनिटः ॥ कपिष्यतीति । अर्थकथनमिद यावता कष्टगहने वर्त्स्यति क एव भवति । असरूपविधिरपि नेटः । पूर्वत्र वाग्रहणात् । ॥ कपिताः शत्रव इति । अत्र भविष्यतापि नास्तीति व्यङ्गविरुरुतेति नाशङ्कनीय यतोऽनिट इति विशेषगे सति वस्तीति वाच्य स्थितेष्येतत्समर्थनमिति न्यायात् ॥ अनद्यतने श्वस्तनी ॥ पदार्थ भविष्यन्तीति । पद गमिष्यति किन सार्थो यत्र धार्थस्य तस्मिन् ॥ परिदेवने ॥ विभाषा वाध्यते इति । 'कदाकोनिया' इत्यर्थः ॥ चुरायावतो - ॥ - पुरा भुङ्क्ते इति ।