________________
श्रीमश० गतौ । अरु व्रणः आदित्यः प्राणः समुद्रश्च । जनैचि प्रादुर्भावे । जनुः अपत्यं पिता माता जन्म माणी च । तनूयी विस्तारे । तनुः शरीरम् । धन धान्ये, पं००वि०
सौत्रः । धनुः चापम् । मनिच ज्ञाने । मनुः प्रजापतिः । ग्रन्धश् संदर्भे । ग्रन्थुः ग्रन्थः । पुश् पालनपूरणयोः । परुः पर्व समुद्रः धर्मश्च । तर्ष संतापे । तपुः त्रपुर
शत्रुः भास्करः अग्निः कृच्छ्रादि च । पौपि लज्जायाम् । त्रपुः त्रपु । डु वी वीजसंताने । वपुः शरीरम् लावण्यं तेजश्च । यजी देवपूजादौ । यजुः अच्छन्दा १६ श्रुतिः यज्ञोत्सवश्व । अदक् भक्षणे अपूर्वः । प्रादुः प्राकाश्ये उत्पत्तौ च । प्रादुर्वभूव । प्रादुरासीत् । टुवेपृङ् चलने । वेपुः वेपथुः ॥ ९९७ ॥ इणो णित् ॥९९८॥
इणं गतावित्यस्मात् णिदुस् प्रत्ययो भवति । आयुः जीवितम् । जटापूर्वादपि । जटायुः अरुणात्मनः ॥ तं नीलजीमृतनिकाशवर्णं सपाण्डुरोरसमुदारधैर्यम् ॥ ददर्श लवाधिपतिः पृथिव्यां जटायुपं शान्तमिवाग्निदाहम् ' ॥ ९९८ ॥ दुषेर्डित् ॥ ९९९ ॥ दुपंच वैकृत्ये इत्यस्मात् डिदुस् प्रत्ययो भवति । दुः निन्दायाम् । दुष्पुरुषः ॥ ९९९ ॥ मुहिमिथ्यादेः कित् ॥ १००० ॥ आभ्यां किदुस् प्रत्ययो भवति । मुहौच वैचित्त्ये । मुहुः कालावृत्तिः। मिथग मेधाहिंसयोः। गिधुः संगमः । आदिग्रहणादन्येभ्योऽपि भवति ॥ १००० ॥ चक्षेः शिदा ॥ १००१॥ चक्षित व्यक्तायां वाचि इत्यस्मात् किन उस् प्रत्ययो भवति स च शिवा । चक्षुः परिचक्षुः अवचक्षुः अवसंचक्षुः अचक्षुः अवख्युः । बाहुलकात् द्विवचने, संचचक्षुः विचख्युः ॥ १००१॥ पातेईम्सुः ॥ १००२ ॥ पांच रक्षणे इत्यस्मात् डिदुम्सुः प्रययो भवति । पुमान् पुरुपः । पुमासौ । पुमांसः। उकार उदित्कार्याथैः ॥ १००२ ॥ न्युभ्यामश्वेः ककाकैसष्टावच ॥ १००३ ॥ न्युद्भ्यां परादञ्च गतौ चेत्यस्मात् कितः अ आ ऐस् इत्येते प्रत्यया भवन्ति ते च टावत् । टायामिव एषु कार्य भवतीत्यर्थः । तेन 'अच् प्राग्दीर्घश्च ' इति भवति । नीचम् उच्चम् । नीचा उचा। नीचैः उचैः । प्रसिद्धाथो एते। लाघनाथ सन्ताधिकारेऽपि अकाराकारमत्ययविधानम् ॥ १००३॥शमो नियो डैस् मलुक् च॥१००४॥ शम्पूर्वात णींग प्रापणे इत्यस्मात् हिदैस् प्रत्ययो भवति शमो मकारस्य च लुम् भवति । शनैः मन्दम् ॥ १००४ ॥ यमिदमिभ्यां डोस् ॥१००५ ॥ आभ्यां डिदोम् प्रत्ययो भवति । य{ उपरमे । योपियसुखम् । दमूचू उपशमे । दोबोहुः ॥ १००५॥ अनसो वहे किए सश्च डः ॥१००६ ॥ अनस्शब्दपूर्वात वहीं पापणे इत्यस्मात् किप् प्रत्ययः सकारस्य च डो भवति । अनो वहति अनहान् वृपभः ॥ १००६ ॥ इत्याचार्यश्रीहेमचन्द्रकृतं स्वोपज्ञोणादिगणसन्नविवरणं परिसमाप्तम् ॥ इत्याचार्यश्रीहेमचन्द्राविरचितायां श्रीसिद्धहेमचन्द्राभिधानखोपज्ञशब्दानुशासनवृहदृत्तौ पञ्चमस्याध्यायस्य द्वितीयः पादः॥ ॥ अकृत्वासननिर्वन्धमभित्वा पावनी गतिम् ॥ सिद्धराजः परपुरप्रवेशवशितां ययौ ॥१ ॥
॥६४॥