________________
Everes
लूप्युवृषिदंशिद्युदिविप्रतिदिविभ्यः कित् ॥ ९०९ ॥ एभ्यः किदन् प्रत्ययो भवति । लुग्श् छेदने । लुवा दात्रं स्थावरश्च । पूग्श् पवने । पुवा वायुः । युक् मिश्रणे | युवा तरुणः । वृपू सेचने । वृषा इन्द्रः नृपभव । दश दशने । दश संख्या । थुंक् अभिगमे । युवा अभिगमनीयः राजा सूर्यश्व । दिवच् क्रीडादौ । दिवा दिनम् । प्रतिपूर्वात् प्रतिदिवा अहः अपराह्णश्च ॥ ९०९ ॥ श्वन्मातरिश्वन्मूर्धन्प्लीन्नर्यमन्विश्वप्सन्परिज्वन्महन्नहन्मघवन्नथर्वन्निति ॥ ९०२॥ एतेऽनपत्ययान्ता निपात्यन्ते । श्वयतेलुक् च । श्वा कुकुरः । मातरि अन्तरिक्षे श्वयति मातरिश्वा वायुः । अत्र ' तत्पुरुषे कृति ' इति सप्तम्या अलुप् इकारलोपश्च पूर्ववत् । मूर्ध च । मूर्च्छन्त्यस्मिन्नाहताः प्राणिन इति मूर्धा शिरः । प्लिहेदधिश्च । लीहा जठरान्तरावयवः । अरिपूर्वादयेर्ण्यन्तात् अरीन् आमयतीति अर्थमा सूर्यः । विश्वपूर्वात् प्ातेः कित् च । विश्वप्सा कालः वायुः अग्निः इन्द्रश्च । परिपूर्वात् ज्वलतेर्डिच । परिज्वा सूर्यः चन्द्रः अग्निः वायुश्च । महीयतेरीयलोपश्च । महा महत्त्वम् । अहेर्नलोपथ | अंहते अहः दिवसः । मङ्घर्नलोपोऽव् चान्तः । मङ्घते इति मघवा इन्द्रः । नञ्पूर्वात् खर्वेः खस्थय । न खर्वति, अथर्वा वेदः ऋपिच । इतिकरणादन्येपि भवन्ति ॥ ९०२ ॥ षप्यशौभ्यां तन् ॥ ९०३ ॥ आभ्यां तन् प्रत्ययो भवति । पप समवाये । अशौटि व्याप्तौ । सप्त अष्टे उभे संख्ये ॥ ९०३ ॥ स्नामदिपद्यतिशकिभ्यो वन् ॥ ९०४ ॥ एभ्यो वन् प्रत्ययो भवति । ष्णांक शौचे । स्नावा शिरा नदी च । मदैच् हर्षे । मद्वा दृप्तः पानं कान्तिः क्रीडा मुनिः शिरथ । मद्वरी मदिरा । बाहुलकात् ङी वनोरश्च । पर्दिच् गतौ । पद्रा पत्तिः वत्सः रथः पादः गतिश्च । ऋक् गतौ । अर्वा अश्वः अशनिः आसनं मुनिश्च । पृश् पालनपूरणयोः । पर्व सन्धिः पूरणं पुण्यतिथिश्व | शंऌद् शक्तौ । शका वर्धकिः समर्थः । शकरी नदी विद्युत् छन्दोजातिः युवतिः सुरभिश्च । शाकरो वृपः ॥ ९०४ ॥ ग्रहेरा च ॥ ९०५ ॥ ग्रही उपादाने इत्यस्मात् वन् प्रत्ययो भवति आकारथान्तादेशः । ग्रावा पापाणः पर्वतव ॥ ९०५ ॥ ऋशीकुशिरुहिजिक्षिहसृदृभ्यः कनिप् ॥ ९०६ ॥ एभ्यः कनिप् प्रत्ययो भवति । ऋक् गतौ । ऋत्वा ऋषिः । शी स्वप्ने । शीवा अजगरः । कुशं आदान रोदनयोः । क्रुश्वा सृगालः । रुहं वीजजन्मनि । रुहा वृक्ष: । जिं अभिभवे । जित्वा धर्मः इन्द्रः योद्धा च । जित्वरी नदी वणिजश्च । वाराणसी जित्व|माः । क्षिक्षये । क्षित्वा वायुः विष्णुः मृत्युश्च । क्षित्वरी रात्रिः । हंग् हरणे । हृत्वा रुद्रः मत्स्यः वायुश्च । स्रं गतौ । सृत्वा काल. अग्निः वायु सर्पः प्रजापतिः नीचजातिश्च । सुत्वरी वेश्यामाता । धृहत् स्थाने । धृत्वा विष्णुः शैलः समुद्रश्च । धृत्वरी भूमिः । वृ॑त् आदरे । दृत्वा दृप्तः । पकारस्तागमार्थः ॥ ९०६ ॥ सृजेः त्रसृकौ च ॥ ९०७॥ सृजेत् विसर्गे इत्यस्मात् कनिष् मययो भवति सज् सृक् इत्यादेशौ चास्य भवतः । सज्या मालाकारः रज्जुश्च । सृकणी आस्योपान्तौ ॥ ९०७॥ ध्याप्यो पी च ॥ ९०८ ॥ ध्यै चिन्तायाम् प्ङ् वृद्धौ इत्याभ्यां कनिष् प्रत्ययो यथासंख्यं च घी पी इत्येतावादेशौ भवतः । ध्यायतीति धीवा मनीषी निषादः व्याधिः मत्स्यश्च । प्यायतेः पीत्रा पीनः ॥ ९०८ ॥ अते च ।। ९०९ ॥ अत सातत्यगमने इयस्मात् कनिष् प्रत्ययो धान्तादेशो भवति । अत्रा मार्गः