________________
त्रययोगेऽपि एवम् । न ह स्म वै पुराग्निरपरथ वृक्णं दहतीति ॥ १६ ॥ * ननौ पृष्टोक्तौ सद्वत् ॥ ५ । २ । १७ ॥ * अनद्यतन इति निवृत्तम् । पृष्टस्य धात्वर्थस्योक्तिः प्रतिवचनं पृष्टोक्तिः। ननुशब्दे उपपदे पृष्टोक्तौ भूतेऽर्थे वर्तमानाद्धातोः सद्रव वर्तमान इव वर्त्तमाना विभक्तिर्भवति । सद्वचनादत्र विषये शानशावपि भवतः किमकार्षीः कटं चैत्र । ननु करोमि भोः । ननु कुर्वन्तं कुर्वाणं मां पश्य । किमवोचः किंचिचैत्र । ननु ब्रवीमि भोः । ननु ब्रुवन्तं ब्रुवाणं मां पश्य । पृष्टोक्ताविति किम् । नन्वकार्षीच्चैत्रः कटम् ॥१७॥ नन्वोर्वा || ५|२| १८ || न तु इत्येतयोः शब्दयोरुपपदयोः पृष्टोक्तौ भूतेऽर्थे वर्तमानाद्धातोर्वा वर्तमाना विभक्तिर्भवति सा च सद्वत् । किमकार्षीः कटं चैत्र । न करोमि भोः । न कुर्वन्तं न कुर्वाणं पश्य माम् । नाकार्षम् । कस्तत्रावोचत् । अहं तु ब्रवीमि । ब्रुवन्तं ब्रुवाणं तु मां पश्य । अहं स्ववोचम् ॥ १८ ॥ *सति ॥ ५ ॥ २ ॥ १९ ॥ सन् विद्यमानो वर्तमान इत्यर्थः । स च प्रारब्धापरिसमाप्तः क्रियामबन्धः । सत्यर्थे वर्तमानाद्धातोर्वर्तमाना विभक्तिर्भवति । भवति। अस्ति । घटं करोति । ओदनं पचति । जीवं न मारयति मांसं न भक्षयतीत्यादौ नियमः "मारब्धोऽसमाप्तश्च प्रतीयते । इहाधीमहे इह कुमाराः क्रीडन्तीत्यादौ क्रियान्तरव्यवधानेऽपि अध्ययनादिक्रियायाः प्रारम्भापरिसमाप्तिरस्त्येव । चैत्रो भुङ्क्ते इत्यादावपि हि क्रियान्तरव्यवधानमशक्यपरिहारम् । सोऽपि ह्यवश्यं भुञ्जानो हसति जल्पति पानीयं वा पिवतीति । तिष्ठन्ति पर्वताः स्यन्दन्ते नद्य इत्यादौ तु स्फुटैव प्रारम्भापरिसमाप्तिः । कथं तर्हि तस्थुः स्थास्यन्ति गिरय इति भूतभावि नां भरतकल्किप्रभृतीनां राज्ञां याः क्रियाः 'तदवच्छेदेन पर्वतादिक्रियाणामतीतत्वानागतत्वोपपत्तेर्न भूतभाविप्रत्ययानुपपत्तिदोषः । एवं च विद्यमान कर्तु के भ्योऽस्यर्थेभ्यो धातुभ्यः सर्वा विभक्तयो भवन्ति । कूपोऽस्ति । कूपो भविष्यति । कूपो भविता । कूपोऽभूत् । कूप आसीत् । कूपो बभूव ॥१९॥ शत्रानशावेष्यति तु सस्यौ || ५ || २ | २० || सत्यर्थे वर्तमानाद्धातोः शत्रानशौ प्रत्ययौ भवत एष्यति तु एष्यन्मात्रे भविष्यन्तीविषयेऽर्थे सस्यौ स्यप्रत्यय सहितौ शत्रानशौ भवतः । स्योऽपि प्रत्ययत्वाद्धातोरेव । यान् । यान्तौ । यान्तः । शयानः । शयानौ । शयानाः । निरस्यन् । निरस्यमानः । पचन् । पचमानः । एकविपयत्वाद्र र्तमानापि । याति । यातः । यान्ति । एवं सर्वत्र । तथा सन् अस्ति अधीयान' अधीते विद्यमानः विद्यते जुह्वत् जुहोति विदन् वेत्ति जानन् जानाति ब्राह्मणः । तथा तरादौ प्रत्यये, पचत्तरः पचत्तमः । पचतितरां पचतितमाम् । पचद्रूपः । पचतिरूपम् । जल्पत्कल्पः । जल्पतिकल्पम् । पश्यद्देश्यः । पश्यतिदेश्यम् । पउद्देशीयः ।
॥
ननौ - ॥ अनद्यतन इति निवृत्तमिति । अपेक्षात इति न्यायात् ॥ ननु कुर्वन्त कुर्वाणमिति । करोमि कुर्वे इति वाक्ये शनानशो । कृतकार्य मा पश्येत्पर्थं ॥ सति ॥ प्रारब्धापरिसमाप्त इति । पूर्वप्रारब्ध साक्षात्साध्यत्वेन प्रस्तुतो न च परिसमाप्त फलस्यानिष्पत्ते । फलार्थ हि उपादीयमानाया कियाया फलेऽधिगते तस्या परिसमाप्तिर्भवति । एव च महता कालेन साध्यते या किया तस्या अन्तराले क्रियान्तरैविच्छिनाया अपि प्रारब्धत्वादसमाप्तत्याच वर्तमानत्वमस्त्येव ॥ जीवं न मारयतीति । नन्वत्र निषेधस्याभावरूपत्वात् अभावस्य च प्रारम्भापरिसमाप्ती न घटेते इत्याह- प्रारब्ध इत्यादि । यावकिया प्रारब्धा न समर्थ्यते तावत्तस्या क्रियान्तरेव्यवहितायाश्वाप्यसमाप्ति ॥ तदवच्छेदेनेति । तद्विशिष्टतयो क्रिययोविभागो भूतो भविष्यन् वा भवतीत्यर्थं ॥ - एव चेति । पूर्वोक्तेनैव न्यायेन भूतभविष्ययियोरपेक्षयेत्यर्थं ॥ - शत्रानशा ॥ स्योऽपि प्रत्ययत्वादिति । राजानशी प्रथम प्रधानत्वात्