________________
ख्याते लोकविज्ञाते दृश्ये * प्रयोक्तुः शक्यदर्शने भूतेऽनयतनेऽर्थे वर्तमानाद्धातोर्यस्तनी विभक्तिर्भवति । परोक्षापवादः । अरुणa - दराजोऽवन्तीन् । अजयत्सिद्धः सौराष्ट्रान् । ख्यात इति किम् । चुकार कटं चैत्रः । दृश्य किम् । जधान कुंसं किल वासुदेवः । अनद्यतन इत्येव । उद्गादयादित्यः ॥ ८ ॥ *अयदि स्मृत्यर्थे भविष्यन्ती ॥ ५ । २ । ९ ॥ स्मृत्यर्थे धातावुपपदे सति भूतानद्यतनेऽर्थे वर्तमानाद्धातोर्भविष्यन्ती विभक्तिर्भवति अयदि नयच्छन्दः प्रयुज्यते । अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः । स्मरसि साधो स्वर्गे स्थास्यामः । एवं बुध्यसे चेतयसे अध्येष्यवगच्छसि चैत्र कलिङ्गेषु गमिष्यामः । अयदीति किम् । अभिजानासि मित्र यत्कलिङ्गेष्ववसाम ॥ ९ ॥ वाकाङ्क्षायाम् || ५ | २ | १० | अयदीति नानुवर्तते । स्मृत्यर्थे धातावुपपदे सति यद्यदि वा प्रयुज्यमाने प्रयोक्तुः क्रियान्तराकाङ्क्षायां सत्यां भूतानद्यतनेऽर्थे वर्तमानाद्धातोर्भविष्यन्ती वा भवति । स्मरसि मित्र कश्मीरेषु वत्स्यामस्तत्रोदनं भोक्ष्यामहे पास्यामः पयांसि च । स्मरसि मित्र कश्मीरेष्ववसाम तत्रैौदनमभुमहि । स्मरसि मित्र यत् कश्मीरेषु वत्स्यामो यत्तत्रौदनं भोक्ष्यामहे । स्मरसि मित्र यत्कश्मीरेष्ववसाम यत्तत्रैौदनमभुञ्ज्महि । अत्र वासो लक्षणं भोजनं पानं च लक्ष्यमिति लक्ष्यलक्षणयोः संबन्धे प्रयोक्तुराकाङ्क्षा भवति ॥ १० ॥ कृतास्मरणातिनिवे परोक्षा || ५ | २|११|| कृतस्यापि व्यापारस्य चित्तव्याक्षेपादिनास्मरणेऽत्यन्तापहवे वा गम्यमाने भूतेऽनद्यतनेऽर्थे वर्तमानाद्धातोः परोक्षा विभक्तिर्भवति । अपरोक्षकालार्य आरम्भः । सुप्तोऽहं किल विललाप । मत्तोऽहं किल विचचार । चिन्तयन् किलाहं शिरः कम्पयांवभूव । अङ्गुलि स्फोटयामास । अतिनिहवे, कश्चित्केनचिदुक्तः कलिङ्गेषु त्वया ब्राह्मणो हतः स तदपहुनुवान आह कः कलिङ्गान् जगाम को ब्राह्मणं ददर्श नाहं कलिङ्गान् जगाम इत्यत्यन्तमपनुते । अतिग्रहणादेकदेशापह्नवे ह्यस्तन्येव । न कलिङ्गेषु ब्राह्मणमह महनम् ॥ ११ ॥ परोक्षे ॥ ५ । २ । १२ ॥ अक्षाणां परः परोक्षः । अत एव निर्देशात्साधुः अव्युत्पन्नो वा साक्षात्कारार्थ । भूतानद्यतने परोक्षेऽर्थे वर्तमानाद्धातोः परोक्षा विभक्तिर्भवति । यद्यपि साध्यत्वेनानिष्पन्नत्वात्सर्वोऽपि धात्वर्थः परोक्षस्तथापि प्रत्यक्षसाधनत्वेन तत्र लोकस्य प्रयक्षत्वाभिमानोऽस्ति । यत्र स नास्ति स परोक्षः । जघान कंसं वासुदेवः । भरतं विजिग्ये बाहुवली | धर्म दिदेश तीर्थकरः ॥ १२ ॥ *हशश्वयुगान्तः प्रच्छये ह्यस्तनी च ॥ ५ । २ । १३ ॥ पञ्चवर्षे युगं तस्यान्तर्मेध्यं तत्र पृच्छयते यः स युगान्तः प्रच्छ्यः । हे शश्वति च प्रयुज्यमाने युगान्तः
॥ प्रयोक्तुः शक्यदर्शने इति । प्रयोक्तुश्च स एव दृश्य यः प्रयोक्तृकालेऽनतिविप्रकर्षेण वृत्त स्यात् । प्रयोक्तुञ्चान्यत्र व्यासक्तत्वेन तद्दर्शनाभावात् परोक्षत्व तस्यार्थस्य पर स यदि तत्र व्रजति तदा पश्यत्येव तस्मिन्नर्थे स्तनी । एव च यस्मिन् कालेऽर्थो वृत्तस्तत्कालभावी पुरुष पञ्चादपि प्रयोग कुवैन्न दुष्यति । यतोऽर्थभवनकाले तस्य पुरुषस्य तदर्थदर्शनयोग्यताया. सद्भावात् । तथा जवान कसं किल वासुदेव इत्यत्रापि यदि वधकालभावी प्रयोक्ता प्रयोग कुरुते तदा तत्रापि अहन्निति भवति यतस्तदा तस्यापि दृश्यत्वादिति । तदुक्त परोक्षे लोकविज्ञाते प्रयोक्त शक्यदर्शने । ह्यस्तने ह्यस्तनी प्रोक्ता चैत्रो नृपमहन्निति ' ॥ अयदि - ॥ न चेद्यत् शब्द इति । धात्वर्थवाचक क्रियाविशेषणरूपो न प्रयुज्यते । यस्मादर्थे तु भविष्यत्येवेति न्यास ॥ यत्कलिङ्गेष्वव सामेति । क्रियाविशेषणमेतत् । यद्वसन न स्मरसीत्यर्थं । यदा तु यस्माद्धेतो कलिङ्गेषु उपितवन्त इति विवक्ष्यते तत्र भविष्यन्त्येव ॥ - हशश्वद्यु - ॥