________________
॥ अथ पञ्चमोऽध्यायः॥
आ तुमोऽत्यादिः कृत् ॥५।१ । १॥ धातोर्विधीयमानस्त्यादिवर्जितो वक्ष्यमाणः प्रत्ययस्तुममभिव्याव्य कृत्संज्ञो भवति । "धनयात्यः । “उदकेविशीर्णम् । गोदायो ब्रजति । अत्यादिरिति किम् । पणिस्ते । कृत्पदेशा' 'तिकृतौ नाम्नि ' (५-१-७१) इसेवमादयः ॥ १॥ *बहुलम् ॥५।१ ।२॥ अधिकारोऽयम् । कृत्मत्ययो यथानिर्दिष्टात् अर्थादेरन्यत्रापि बहुलं भवति । पादाभ्यां हियते पादहारकः । गले चोप्यत इति गलेचोपकः । मुह्यत्यनेनात्मेति मोहनीयं कर्म । नाति तेनेति सानीयं चूर्णम् । एवं यानीयोऽश्वः । दीयते तस्मै इति दानीयोऽतिथिः । संप्रदीयतेऽस्मा इति संप्रदानम् । एवं स्पृहणीया विभूतिः । समावतते तस्मादिति समावर्तनीयो गुरुः । एवमुद्रेजनीयः खलः । तिष्ठन्त्यस्मिन्निति स्थानीय नगरम् । एवं शयनीयः पल्यङ्गः ॥२॥ कर्तरि ॥५।१।३ ॥ कृत्मत्ययोऽर्थविशेपनिर्देशमन्तरेण कर्तरि भवति । कारकः । कर्ता । पचः। नन्दनः॥३॥ व्याप्ये घुरकेलिमकृष्टपच्यम् ॥५॥१॥४॥ घुर केलिम इसेतो प्रत्ययौ कृष्पच्यशब्दश्च व्याप्ये कर्तरि भवतीति वेदितव्यम् । घुरो वक्ष्यते । *केलिमोऽत एव वचनात् ज्ञायते । कृष्टपच्ये यश्च । भज्यते स्वयमेव, भङ्गरं काष्ठम् । एवं भिदुरः कुशूलः । छिदुरा रज्जुः । भासमिदिविदा कर्तर्येव घुरः कर्मकर्तुरसंभवात् । भासते इत्येवंशीलो भासुरः । एवं मेदुरः । विदुर । के चिच्छिदिभिदोरपि कर्तरि घुरमिच्छन्ति । दोपान्धकारभिदुरो दृप्तारिखक्षश्छिदुर इति । पच्यन्ते स्वयमेव पचेलिमा मापाः । एवं भिदेलिमास्तण्डुलाः । कृष्टे पच्यन्ते स्वयमेव कृष्टपच्याः शालयः ॥ ४ ॥ संगतेऽजर्यम् ॥५॥१॥५॥ संगमनं संगतम् । तस्मिन्कर्तयभिधेये नपूर्वाज्जीयतेर्यमत्ययो निपात्यते । न जीर्यतीति अजयम् आर्यसंगतम् । मृगैरजर्य जरसोपदिष्टम् । सामान्यविशेषभावेन चोभयोरपि प्रयोगो भवति । तेन संगतमार्येण रामाजर्य कुरु द्रुतम् । अनय संगतं नोऽस्तु । संगत इति किम् । अजरः पटः । अजरिता कम्बलः । कर्तरीत्येव । अजार्य संगतेन ॥५॥ रुच्याव्यथ्यवास्तव्यम् ॥५।१।६॥ एते कर्तरि निपात्यन्ते । रोचते पूर्वाद व्यथतेश्च क्यप् प्रत्ययो वसतेस्तु तव्यण निपात्यते । रोचते इति रुच्यो मोदको मैत्राय । न व्यथते इत्यव्यथ्यो मुनिः । वसतीति वास्तव्यः॥ ६॥ भव्यगेयजन्य
centercenarenesawarekare
अहं ॥-आ तुमोऽत्यादि कृत् ॥-धनधात्य इति । अत्र कृत्सज्ञाया 'कारक कृता' इति समास ॥-उदकेविशीर्णमिति । अत्र 'केन' इति समास । 'तत्पुरुपे काते' इत्यलुम् । गोदाय इवत्र तु 'इस्युक्त कृता' इति स ॥-बहुलम् ॥-अथारिति। आदिपदादुपपदधात् गृह्यते ॥-स्पृहणीया विभूतिरिति। स्पृह्यतेऽस्यै स्पृहणीया विभूति कर्मतापजा स्मृत्यत इत्यर्थः। च्याप्यस्य 'स्याप्य'-इति वा सप्रदानसज्ञा ॥-च्या. प्ये घुर-॥-केलिमोऽत पत्र वचनादिति । विहाविसापचिभिद्यादे केलिम" इति औणादिको नियतधातुविपयोऽय तु सर्वविषय इत्याह ॥ लगतेऽज-॥ केपादिकस्य जशो निपातन न दृष्टमित्याह-जीर्यतीति