________________
॥ ४ । ४ । २४ । इणिकोरशाने वर्तमानयोण विषये गमु इत्ययमादेशो भवति । उकारः 'स्वरइन्गयोः सनि घुटि ' ( ४-१-१०४ ) इत्यत्र विशेषणार्थः । गमयति । गमयतः । गमयन्ति ग्रामम् । अधिगमयति । अधिगमयतः । अधिगमयन्ति प्रियम् । अज्ञान इति किम् । अर्थान् प्रत्याययति । अज्ञान इतीणो विशेषणं नेकोऽसंभवात् । धात्वन्तरेणैव सिद्धे णाविको ज्ञानादन्यत्रेणश्च रूपान्तर निवृत्यर्थं वचनम् । कथमर्थान् गमयन्ति शब्दाः । गमिनैव सिद्धम् ॥ २४ ॥ सनीङश्च ||४|४|२५|| इङ इणिकोश्चाज्ञाने वर्तमानयोः सनि परे गमुरादेशो भवति । अज्ञान इति इण एवं विशेषणम् नेकिङोरसंभवात् । इङ्, अधेजिगांसतेद्याम् । इण्, अधिजिगमिपति ग्रामम् । इकू, मातुरधिजिगमिपति । अज्ञान इत्येव । अर्थान् प्रतीषिषति ॥ २५ ॥ गाः परोक्षायाम् ॥ ४ । ४ । २६ ॥ इङः परोक्षायां विषये गादेशो भवति । अधिजगे । अधिजगाते । अधिजागिरे । अधिजगिषे । विषयनिर्देशः किम् । आदेशे सति द्विर्वचनं यथा स्यात् । तेन प्राक्तु स्वरे स्वरविधेरिति नोपतिष्ठते ॥ २६ ॥ णौ सन्डे वा ॥ ४ । ४ । २७ ॥ सन्परे उपरे च णौ परत इङोगादेशो वा भवति । * अधिजिगापयिषति । अध्यापि पयिषति । अध्यजीगपत् । अध्यापिपत् । णाविति किम् । अधिजिगांसते । सन्ङ इति किम् । अध्यापयति ॥ २७ ॥ * वाद्यतनीक्रियातिपत्योर्गी ॥ ४ । ४ । २८ ॥ अद्यतनीक्रियातिपत्त्यो परत इङो गीङादेशो वा भवति । अध्यगीष्ट । अध्यगीषाताम् । अध्यगीषत । अध्यैष्ट । अध्यैपाताम् । अध्यैषत । क्रियातिपत्तिः । अध्यगीष्यत । अध्यगीष्येताम् | अध्यगीष्यन्त । अध्येष्यत । अध्यैष्येताम् | अध्यैष्यन्त । उकारो + गुणनिषेधार्थः ॥ २८ ॥ *अधातोरादिर्ह्यस्तन्यां चामाङा । ४ । ४ । २९ ।। ह्यस्तन्यामद्यतनी क्रियातिपत्त्योश्च विषये धातोः *आदिवयवोऽड् भवति 'अमाङा ' माङा योगे तु न भवति । अकरोत् । अकार्षीत् । अकरिष्यत् । विषयविज्ञानात् प्रत्ययव्यवधानेऽपि भवति । परविज्ञाने हि अहनित्यादावेव स्यात् । अमाङेति किम् । मा भवान् कार्षीत् । मास्म केरोत् । अस्मद्विना मा भृशमुन्मनी भूः ॥ धातोरादिरिति किम् । प्राकरोत् ॥ २९ ॥ * एत्यस्तवृद्धि: ॥ ४ । ४ । ३० ॥ इणिकोरस्तेश्वादेः खरस्य ह्यस्तन्यां विषये वृद्धिर्भवति अमाङा । आंदरिति विभक्तिविपरिणामात् । आयन् । अध्यायन् । आस्ताम् । आसन् । अमाङेत्येव । मा स्म भवन्तो यन् । मा स्म भवन्तः सन् । यत्वे लुकि च स्वरादित्वाभावादुत्तरेण वृद्धिर्न प्राप्नोतीति वचनम् । विषयत्वविज्ञानात्परत्वाद्वा प्रागेव वृद्धौ कुतो यत्वाल्लुकोः प्राप्तिरिति चेत् । सत्यम् । इदमेव वचनं ज्ञापकं कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चादृद्धिस्तद्वाध्योऽद् च भवति । तेन ऐयरुः अध्यैयतेत्यादावियादेशे सति वृद्धिः सिद्धा । अचीकरदित्यादौ च दीर्घत्वम् । गमादेशे णो यःकृत कार्यमिति न्यायाद् इ इति द्विर्वचनं स्यात् ॥ - णौ सन् अधिजिगपथियतीति । अधीयान प्रयुङ्क्ते विगि अन्तरायोरप्यात्यप्यागमयोरस्याऽपवादत्वात् अप्रवृत्ती अध्याययितुमिच्छताति सनि पाक्षिके गादेशे तदन्यत्रात् उभयत्र प्यागमे द्विवादी च सिद्धम् । यद्वा आपस्थाने गादेशे यावत्सभव इति न्यायात्पुन पोन्त ॥ वाद्यतनोहि॥ - अध्यगीष्टेति । अन्तरध्वात् प्रागेव सिचो गोट् ॥ गुणनिषेधार्थं इति । न वाच्य विधानसामर्थ्यात् न भविष्यतीति । तदा वध्यगायीत्यत्र वृद्धिरपि न स्यात् ॥ अड् धातो - || आदिश्वयव इति । अटो घास्ववयवत्वे प्रणयमिमीतेत्यादौ णत्वम् ॥ - अहन्नित्यादाविति । आदिशब्दादभोत्स्यत इत्यादी । - एत्यस्ते - |- आदेरितीति (अथ पूर्वसूत्रे आदिशब्दः प्रथ