________________
मश ० १
॥२७॥
काधि
| चकाद्धि । आशाध्वम्
। आशाध्वम्
स्य
। *अलविड्द्दम् | अलविदम् । सिच्यनुवर्तमाने सग्रहणं सामान्यसकारपरिग्रहार्थम् । तेन प्रकृतिसकारस्यापि लुग् भवति ॥ विकल्पं नेच्छन्त्येके । अन्ये तु सिच एव नित्यं लोपमिच्छन्ति ॥ ७२ ॥ अस्तेः सि हस्त्वति || ४ | ३ | ७३ ॥ अस्तेः सकारस्य सकारादौ प्रत्यये परे लुग्भair एका तु प्रत्यये सकारस्य हकारः । असि । व्यतिसे । अकारसकारयोर्लोपे प्रत्ययमात्रं पदम् । हस्त्वेति व्यति । भावयामादे । कारयामाहे चैत्रेण । परोक्षाया एकारे नेच्छन्त्यन्ये । भावयामासे । कारयामासे ॥ ७३ ॥ दुहदिहलिहगुहो दन्त्यात्मने वा सकः ॥ ४ । ३ । ७४ ॥ एभ्यः परस्य सक्प्रत्ययदन्त्यादावात्मनेपदे परे लुग् वा भवति । दुह, अदुग्ध । अधुक्षत । अदुग्धाः । अधुक्षयाः । अधुग्ध्वम् । अधुक्षध्वम् | अदुहाई | अधुक्षावहि । दिह, अदिग्ध । अधिक्षत | अदिग्धाः | अधिक्षया । अधिग्ध्वम् । अधिक्षध्वम् | अदिहि | अधिप्रावहि । लिह, अलीढ । अलिङ्क्षत | अलीढाः । अलक्षयाः | अलीम् । अलिक्षध्वम् । अलिद्दहि | अलिक्षावहि । गुहू, न्यगूढ । न्यघुक्षत । न्यगूढाः । न्यघुक्षथाः । न्यघूड्ढुम् । न्यघुक्षध्वम् । न्यगुरुहि । न्यघुक्षावहि । आत्मन इति किम् । अधुक्षत् | अधिक्षत् । दन्त्येति किम् । अधुक्षामहि | अविक्षामहि ॥ ७४ ॥ *स्वरेऽतः ॥ ४ । ३ । ७५ ॥ सकोऽकारस्य स्वरादौ प्रत्यये परे लुग्भवति । “अधुक्षाताम् । अधुक्षाथाम् । अधुक्षि | अधिक्षाताम् । अधिक्षाथाम् | अधिक्षि | स्वर इति किम् | अधुक्षत | अविक्षत। अधुक्षन्तेत्यकार लोपेऽपि "स्थानिवद्भावादन्तो दादेशो न भवति ॥ ७५ ॥ * दरिद्रोऽयतन्यां वा ॥ ४ । ३ । ७६ ।। दरिद्रातेरद्यतन्या विषयेऽन्तस्य वा लुग् भवति । अदरिद्रीत् । अदरिद्रासीत् । अदरिद्रि । अदरिद्रायि ॥ ७६ ॥ *अशित्यस्सन्जकज्णकानटि ॥ ४ । ३ । ७७ || सकारादिसन्ण कच्णकानड्वर्जितेऽशिति प्रत्यये विषयभूते दरिद्रातेरन्तस्य लुग् भवति । *दरिद्रयति । दरिद्रता । दरिद्रितुम् । दरिद्रणीयम् । साधुदरिद्री । णिन् । दरिद्र्यते । दरिद्र्यात् । 'दरिद्राचकृवान् । विषयसप्तमीविज्ञानात्पूर्वमेवा कारलोपे *दरिद्रातीति दरिद्रः । अजेव भवति नत्वाकारान्तलक्षणो णः । तथा दुर्दरिद्रमित्याकारान्तलक्षणोऽनो न भवति । दरिद्राणम् । दरिद्र इति च घाने 'आत इति ऐर्न भवति । अशितीति किम् । दरिद्राति । दरिद्रामि । अदरिद्राम् । सन्नादिवर्जन किम् | सनि, दिदरिद्रासति । क्रियाचा क्रियार्थायां णरुचि दरिद्रायको व्रजति । ' पर्यायाई ' (५ । ३ । २०) इसादिना णके दरिद्रायको वर्तते । ' णकतृचौ ' (५ । १ । ४८ ||) इति च ण: दरिद्रायकः | अनाटे, दरिद्राणम् । सनः सादिविशेषणं किम् ।
T
॥— अलविङ्गमिति । लूधातुस्ततो धम् । सिच् इडागने चसि पत्ये च ' तवर्गस्य - इति धस्य डबे 'तृतीयस्तृतीय' इति पस्य त्वे च सिद्धम् ॥ स्वरेऽतः ॥ - अधुक्षातामिति । सकोऽकारलोपात् आतामाते ' इति इत्वम् अवर्णस्य' इत्येव च न भवति ॥ स्थानिवद्भावादिति । प्राच पूर्वास्माद्विधिरित्या नीयते इति 'स्वरस्य पर'इति स्थानिवद्भाव ॥ - दरिद्रोऽयतन्यां वा ॥ अद्यतनीविषयेति । विपयव्याख्यानादादेशादागम इति न्यायात् प्रथम 'यमिरमिनम्यान ' इति इट् सोन्तथ न भावकर्मणोस्तु जिमिचि 'आत ऐः कृम्नौ ' इति ऐकारो न ॥ अशित्यस्सन्- ॥ दरिद्रयतीति । दरिद्रत प्रयुक्ते विगि विषयविज्ञानात् पोऽन्तो न ॥ दरिद्रातीति दरिद्रः इति विशेषविहितापि लुक् लोपात्स्वर देवा इति न्यायात् ' आत ऐ कृन्नौ' इत्यकारेण णप्रत्यये बाध्येत ॥ - दरिद्रांचकुवानिति । आमादेशस्यानित्यत्वे ददरिद्र्वानित्यपि । पष्ठवा तु ददरिद्रुप इति भवति ।
च० अ०
॥२७॥