________________
वृता वाध्यते । कृते च तस्मिन्वृद्धिः । तत आवादेश उपान्त्यहस्वत्वम् । ततो णिकृतस्य स्थानित्वात् शोदित्वम् ततः पूर्वदीर्घ इति क्रमः ॥ णावित्येव । अशिश्वि| यत् । शिश्वयिषति ॥ ८९॥ वा परोक्षायङि॥४।१।९०॥श्वयतेः सस्वरान्तस्था परोक्षायां यङि च परे वा खत भवति । शुशाव । शिवाय । अहं शु. शव । शिश्वय । “शुशुवतुः। शिश्चियतुः । शुशविथ । शिश्वयिथ । शोशूयते । शोशवीति । शेश्वीयते । शेश्वयीति । अवित्परोक्षायां कित्त्वायजादित्वेन प्राप्ते विति परोक्षायां यडि चापाप्ते विभाषा ॥९०॥ प्यायः पी॥४।१।९१॥ प्यायतेः परोक्षायां यङि च पीरादेशो भवति । आपिप्ये । आपिप्याते । आपिप्यिरे । पेपीयते। प्रपेपीयते । दीर्घनिर्देशो यङ्लुवर्थः। आपेपेति । आपेपीतः ॥ ९१॥ क्तयोरनुपसर्गस्य ॥४।१।९२ ॥ अनुपसर्गस्य प्यायः क्तयोः क्तक्तवत्वोः प्रत्यययोः परयोः पीत्ययमादेशो भवति । पीनं मुखम् । पीनवन्मुखम् । क्तयोरिति किम् । प्यायते । अनुपसर्गस्येति किम् । मप्यानो मेघः ॥ ९२ ॥ आङोऽन्धूधसोः॥४॥ १॥ ९३ ॥ आङ उपसर्गात्परस्य प्यायतेरन्धावूधसि चार्थे क्तयोः परतः पीरादेशो भवति । आपीनोऽन्धुः। आपीनमूघः । अन्धुणम् उधसो वा पर्यायः । आङ इति किम् । प्रप्यानोऽन्धुः । परिप्यानमूधः । अन्धूधसोरिति किम् । आप्यानश्चन्द्रः । आङ एवेति नियमात् माप्यानमूध इसत्राङन्तादुपसर्गान्न भवति । अनुपसर्गस्य तु पूर्वेण भवत्येव । पीनोऽन्धुः । पीनवानन्धुः । पीनमूधः । पीनवदूधः । अन्ये तु प्यायतेः केवलस्याङ्पूर्वस्याङन्तोपसर्गपूर्वस्यैव च प्रयोगमिच्छन्ति नान्यपूर्वस्य । तन्मते प्रप्यानपरिप्यानादयोऽपयोगाः । क्तयोरित्येव । आप्याय्यः ॥ ९३॥ 'स्फायः स्फी वा ॥४।१।९४॥ स्फायतेः क्तयोः परतः स्फी इत्ययमादेशो वा भवति। १६ स्फीतः। स्फीतवान् । संस्फीतः । संस्फीतवान् । स्फातः । स्फातवान् । क्तयोरिति किम् । "स्फातिः। विकल्पं नेच्छन्त्यन्ये ॥ ९४ ॥ प्रसमः स्त्यः स्ती॥४॥१॥ ९५॥ प्रसम् इत्येवंसमुदायपूर्वस्य स्त्यायतेः क्तयोः परतः स्ती इत्ययमादेशो भवति । प्रसंस्तीतः। प्रसंस्तीतवान् । प्रसम इति किम् । संप्रस्त्यानः। संप्रस्त्यानवान्। स्त्यानः। संस्त्यानः । प्रसमो नेच्छन्त्यन्ये ॥९५॥ प्रात्तश्च मोवा॥४।१९६॥ प्रात्केवलात्परस्य स्त्यायतेः क्तयोः परयोः स्ती इत्ययमादेशो भवतिक्तयोस्तकारस्य च वा मका
Vocal
ननु विधानसामर्थ्यादेव वृच्यादिक बाधित्वा वृद्भविष्यति किम् विषयव्याख्यानेन । नैवम् । वृद्धी कृतायामऽपि यस्यापि वृत्प्रामोति अतो विधानं चरितार्थम् ॥-वा परोक्षा-॥-शुशुवतुरिति । 'दीर्घमय. '-इति दीर्धे द्विवचनम् ॥-प्यायः पी॥-आपेपीत इति । भोजेनैतत् कान्त साधितमिति तिवन्तोदाहरणमवेतनवर्तमानानिश्चयार्थम् ॥-आङोन्धूधसोः ॥-ऊधसो वा पर्याय इति । ननु तर्हि आढोन्धाविति सिद्धे अधस्ग्रहणं किमर्थम् । सत्यम् । अधोग्रहण बोधयति आपीन इति प्रयोगो नणे विशेपणतया अधसि च पर्यायेण । यद्वा उधोग्रहणमेव ज्ञाययति । अन्धुशब्द कैश्चिदेव जयसि कीर्यते अन्यथाऽन्धुनापि साध्यसिद्धि ॥-आङ एवेतीति । अत्राप्यनुपसर्गस्येत्यनुवर्तनीयं ततश्च आपूर्वस्य प्पाय. पी । कथं भूतस्याडोऽनुपसर्गस्य किमुक्त भवति केवल स्येत्यर्थ इत्यवधारणान्नियन्त्रणान्न तु सिद्धे सत्यारम्भोनियमार्थ इति । यद्वा सर्व वाक्य सायधारणमिति न्यायादेवकारः ॥-आप्याय्य इति । 'कालाध'-इत्यनेन मासादेः कर्मत्वेऽन्तभूतण्यर्थत्वेन वा सकर्मकत्वे कर्मणि घ्यण भावे तु कीवत्वं स्यात् ॥-स्फायः स्फी वा ॥-स्फातिरिति । तत्कथं स्फीतिः । उच्यते । स्फायते स्म क. स्फीत इवाचरति 'कर्तुं फिप्' । स्फीततीति 'स्वरेभ्य इ.' ॥-प्रसमः-॥ व्यावृत्तौ केवलात् प्रोपसर्गान्न दर्शितम् उत्तरेण विधानात् ॥-नेच्छन्त्यन्ये इति । ते ह्येतत्सूत्रं न कुर्वन्ति