________________
| श्रथण पदिण् छदण् आउः सःण् गतौ । छुदण शुन्षिण, तण उपसर्गादये, मानण् पूजायाश् , तपण् तृपिण आप्लण् दृभिण ईरण मृपिण 'शिपण, विपूर्वाऽति* शये' जुषण धृषण् हिसुण् गर्हण पदण् हति युजादिः । १८ ॥ भूङः प्राप्तौ णिङ् ॥ ३ । ४।१९ ॥ भुवो धातोः प्राप्तावर्थे वर्तमानात् णिङ् प्रत्ययो वा
भवति । भावयते । भवते । पामोतीत्यर्थः । भवतीत्येवान्यत्र । णिडिति ङकार आत्मनेपदार्थः। भूङ इति उकारनिर्देशो णिङभावेऽप्यात्मनेपदार्थः। प्राप्यभावेऽपि | कचिदात्मनेपदमिष्यते। यथा 'याचितारश्च नः सन्तु दातारश्च भवामहे ॥ आक्रोष्टारश्च नः सन्तु क्षन्तारश्च भवामहे' इति ॥ पोतावपि परस्मैपदमित्यन्ये । सर्व भवति प्राप्नोतीत्यर्थः । अवकल्कने तु भावयतीत्येव । भूण् अवकल्कने इति चुरादौ पागत् ॥ १९ ॥ *प्रयोक्तव्यापारेणिग ॥ ३।४।२०॥ कारं यः प्रयुते स प्रयोक्ता तब्यापारेऽभिधेये धातोणिग् प्रययो वा भवति । व्यापारश्च प्रेषणाध्येपणनिमित्तभावाख्यानाभिनयज्ञानप्राप्तिभदैरनेकथा भवति । नत्र | तिरस्कारपूर्वको व्यापारः प्रेपणम् । सत्कारपूर्वकस्त्वध्येपणम् । कुर्वन्तं मयुड़े कारयति । पचन्तं प्रयुक्ते पाचयति । अत्र पणेनाध्यपणेन वा यथासभवं प्रयो- 8 | क्तुत्वम् । वसन्तं प्रयुक्ते वासयति भिक्षा । कारोपानिरध्यापयति । अत्र निमित्तभावेन । राजानमागच्छन्तं प्रयुक्ते गजानमागमयति अमृगान् रमति रात्रि विवासयति कथकः । अत्राख्यानेन । आख्यानेन हि *बुद्ध्यारूढा राजादयः प्रयुक्ताः प्रतीयन्ते । कंसं घ्नन्तं प्रयुक्त *कंसं घातयति । बलि बन्धयति नटः।
अत्राभिनयेन । पुष्येण युञ्जन्तं प्रयुक्त पुष्येण योजयति चन्द्रम् । मघाभियोजयति गणकः । अत्र कालज्ञानेन । उज्जयिन्याः पदोपे प्रस्थितो माहिष्मयां मुर्यमुद्ग*च्छन्तं प्रयुक्त माहिष्मत्यां सूर्यमुद्गमयति । रैवतकात् प्रस्थितः शत्रुञ्जये सूर्य पातयति । अत्र प्राप्त्या । *ननु च कर्तापि करणादीनां प्रयोजक इति तद्यापारेऽपि |णिग प्राप्नोति । नैवम् । *प्रयोक्तग्रहणसामर्थ्यात् । तथा क्रियां कुर्वन्नेव कोभिधीयते । *तेन तूष्णीमासीने प्रयोज्ये मा पृच्छतु भवान् अनुयुक्तां मा भवानित्यत्र
--प्रयोक्तृव्या--॥--मृगान् रमयतीति । रममाणान् मृगान् कथयन् तेषा प्रयोजको भवति । कथनेन यदारण्यस्थो रममाणान् मृगान्प्रतिपाद्यमाचष्टे * एतस्मिन्नवकाश एवं मगा रमन्ते इति तदास प्रतिपाद्यदर्शनार्थी प्रवृत्तिर्भवति तस्या च णिग् वक्तव्य ॥-बुद्धपारूढा इति । बुद्धिषु श्रोतृणा चित्तेप आरुदा सत्तामापना |
प्रवक्ता प्रवर्तिता प्रतीयन्ते । राजादीना हि उभयत्र भावो यहिरन्तथ । तत्राख्यात्रा पहिभोवस्य कर्तुमऽशक्यत्वेऽपि अन्तभोवस्य सुशकत्वाहि प्रयोगाभावेऽप्यन्त प्रयोगात्प्रयोक्तत्वमिति ॥ कस घातयतीति । अय नट कौशलात्तथा सरसमभिनयति यथा कसवधाय बलिनन्धनाय चाऽयमेव नारायण प्रयुक्ते इति परेषा प्रतिपत्तिर्भवतीति ॥-माहिष्मत्यामिति । महिषा अत्र सन्ति 'नदकुमुद -इति दिति मती अन्त्यलोपे 'धुटस्तृतीय' इति उत्व प्राप्तमऽसिद्ध बहिरङ्गमित्यनेन व्युदस्यते । न च 'स्वरस्य'-इति स्थानित्वेऽकारेण व्यवधानमिति वाच्य 'न सन्धि'-इत्यस्य असद्विधावऽवस्थानात् । महिष्मति भवा भवेऽण् ॥-रैवतकादिति । राया द्रव्येण वन्यन्ते स्म ते रेवृह रेवत इति 'पुतपित्त'-निपातो वा रैवता वृक्ष स्ते सन्त्यत्र 'अरीहणादेरकण '॥-ननु च कतापि करणादीनामिति । अयमर्थ कट करोतीत्यादौ मुख्यकतव्यापारेऽपि जिग् प्राप्नोति अत्रापि प्रयोक्तव्यापारस्य विद्यमानत्वात् । तथाहि कट करोतीति कोऽयं जायमान जनयतीत्यर्थ ।। इत्याशहकायामाह-प्रयोक्तृग्रहणसामथ्यादिति । कर्तार य प्रयुद्धे स हि प्रयोक्ता । यदि च व्यापारमात्रे णिग् स्यात्तदा व्यापारे णिगित्येवोच्येत ॥ तेन तृष्णीमासोने इति । प्रयोज्ये