________________
EkakkakakakakakakakkkkkkkkkKEKREYKKKKKAREEKXKHE
॥ तृतीयोऽध्यायः॥
॥ अहँ ॥ *धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमाातिवर्जः प्रादिरुपसर्गः प्राक्च ॥३।१।१॥ धातोः संवन्धी तदर्थयोती चायन्तर्गतः | प्रादिशब्दगण उपसर्गसंज्ञो भवति तस्माच धातोः प्राक् प्रयुज्यते *न परो न व्यवहितः पूजार्थों स्वती गतार्थावधिपरी अतिक्रमार्थमति च वर्जयित्वा । प्रणयति । | परिणयति । अभिषिञ्चति । निपिञ्चति । प्रलम्भः । उपलम्भः । एपूपसर्गसंज्ञायां णत्वषत्वनागमाः सिद्धाः । धातोरिति किम् । संक्षमभिसिञ्चति । प्रगता नाय
का यस्मात्स प्रनायको देशः इत्यत्र तु सत्यपि धातुसंबन्धे येनैव धातुना धातुसंबद्धाः प्रादयस्तं प्रत्येवोपसर्गसंज्ञा इति गमिसंबन्धेऽपि नयतिं प्रसनुपसर्गसात् णत्वं न | भवति । एवं पर्छको देश इत्यत्रारादेशो न भवति । पूजार्थस्वत्यादिवर्जनं किम् । पूजायौँ स्वती, सुसिक्तम् भवता। सुस्तुतं भवता। अतिसिक्तं भवता। अतिस्तुतं भवता । | धात्वर्थः प्रशस्यते। अत्रोपसर्गसंज्ञाया अभावात् पत्वं न भवति । पूजाग्रहणं किम् । सुषिक्तं नाम किं तवात्र । धात्वर्थोऽत्र कुत्स्यते । गतार्थावधिपरी, अध्यागच्छयाग
त्यधि । पर्यागच्छति आगच्छति परि । उपरिभावः सर्वतोभावश्चान्यतः प्रकरणादेः प्रतीयत इति गतार्थत्वम् । अत्र प्राक्त्वनियमाभावः । अध्यागमनं प्रयोजनम| स्याध्यागमनिकः । पर्यागमनिकः । अत्र प्रयोजनम् ' (६-४-११७) इतोकणि अधिपरिशब्दयोरादेरकारस्य वृदिर्न भवति । उपसर्गत्वाभावेन गतिसंज्ञाया अभावे समासाभावेन पृथक्पदत्वात् । पर्यानीतम् । अत्रानुपसर्गत्वाण्णो न भवति । गतार्थग्रहणं किम् । अध्यागच्छति, पर्यागच्छति । अत्रोपरिभावस्य सर्वतोभावस्य च प्रकरणादेरमतीतस्य द्योतने उपसर्गसंज्ञास्त्येवेति माक्त्वनियमः । अतिक्रमार्थोऽतिः। यदर्थं क्रिया तस्मिन् निष्पन्ने क्रियाप्रवृत्तितिक्रमः । अतिसिक्तं भव
ता। यतिस्तुतम् भवता । अतिक्रमेण सेकः स्तुतिश्च कृतेयर्थः । अत्र पत्वं न भवति । अति स्तुत्वा । अत्र *समासाभावाद्यवादेशो न भवति । अतिक्रमग्रहणं किम् । ॐ ॥-धातोः पूजार्थ-॥ अनेकार्थत्वाद्धातूना कुत्रापि धूयमाणार्थराधयाऽर्थान्तर द्योतयति कुत्रापि श्रूयमाणमे प्रत्युक्त-तदर्थद्योतीति । प्राक्शब्दस्याऽव्यवहिते वर्तनादाह-न पर इति ॥
धात्वर्थ: प्रशस्यते इति । शोभनत्वोद्भावनेन सिचिस्तोत्वोरर्थस्य कर्तु पूजा प्रतीयत इत्यर्थ ॥-गतार्थावऽधिपरी इति । गतो ज्ञातोऽयोऽभिधेय ययोस्तौ गतार्थों योऽधोऽनयोोत्यस्तस्य प्रकरणादि
वशादऽगमे निष्प्रयोजनाचेतावुच्यते इति गतार्थत्वम् । यद्येव प्रकरणादेनोक्तत्वात्तदर्धस्य तयो प्रयोगायोग । उच्यते । प्रकरणादिवशादध्वगतार्थानामऽपि स्फुटतरार्थाऽवगत्यर्थ प्रयोगो लोके भवति । Ke यथाऽपूपी द्वौ ब्राह्मणो द्वावानयेत्यपूपावित्यादी द्विवचनादवगतेऽपि द्वित्वे द्विशब्दस्य प्रयोग इति ॥-समासाभावादिति । गतिसशाया अभावात् 'गतिकन्य'-इत्यनेन । 'अतिरतिक्रमे च' इत्यपि याहुल