________________
।
*तारका वर्णकारका ज्योतिस्तान्तवपितृदेवत्ये॥२।४।२१३ ॥ तारकादयः शब्दा यथासंख्यं ज्योतिरादिष्वर्थेषु इकारादेशराहिता निपात्यन्ते । तरतर्णके तारका ज्योतिः तच नक्षत्रं कनीनिका च । नक्षत्रमेवेत्यन्ये । अन्यत्र तारिका । वर्णयतीति णके वर्णका तान्तवः प्रावरणविशेषः । अन्यत्र वर्णिका भागुरी लोकायतस्य । अश्नोतेरौणादिके तककि अष्टकापितृदेवत्यं कर्म । अन्यत्राष्टौ द्रोणाः परिमाणमस्या इति के अष्टिका खारी । पितृदेवतार्थ कौति 'देवतान्तात्तदर्थे ' (७-१-२२) इति ये पितृदेवत्यमिति सिद्धम् ॥ ११२ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ द्वितीयस्याव्यायस्य चतुर्थः पादः ॥२।४॥ श्रीमूलराजक्षितिपस्य बाहुर्बिभर्ति पूर्वाचलशृङ्गशोभाम् ॥ संकोचयन्वैरिमुखाम्बुजानि यस्मिन्नयं स्फूर्जति चन्द्रहासः॥ १॥ अलका दण्डका नगयौं । पिप्पका अश्वथस्य फलम् । मेनका गौरीमाता अप्सराश्च । द्वारका नगरी ॥-तारका व-॥ णिजन्ताद्वर्यत इति कर्मणि सज्ञायां णके वर्णका ॥-वर्णयतीति तु चौरादिकप्रतिपत्त्यर्थ तिवा निर्देशो ननु णकारम्भकः । अथवा वर्णयत्याधारविशेषगतमाधेयगुण वादयतीति ॥ ॥ इत्याचार्यः द्वितीयस्याध्यायस्य चतुर्थः पाद सपूर्ण ॥ ॥ ॥ ॥
TAGRADEMANORPemammeerPOARAKला HTOd0--00- 00-wate- - - -
NCER
॥ समाप्तोऽयं द्वितीयोऽध्यायः ॥