________________
screenarane
तक्ष्णी । दण्डिनी । छत्रिणी । की । हीं । खियामिति किम् । पञ्च सप्त दश नद्यः । नान्तायाः संख्याया युष्मदस्मदोरिवालिङ्गत्वात् । अत एव नकारलोपेऽपि 'आत । (२-४-१८) इत्यावपि न भवति। अस्वस्रादेरिति किम् । स्वसा । अतिस्वसा । परमस्वसा। दुहिता । ननान्दा । याता । माता । तिस्रः । चतस्रः। तिसृचतस्रादेशस्य विभक्त्यनन्तरनिमित्तत्वात् संनिपातलक्षणत्वेन तद्विघातकत्वाभावादेव डीनिवृत्तौ सिद्धायां स्वादिषु तयोः पाठः संनिपातलक्षणन्यायस्यानित्यत्यज्ञापनार्थ । तेनातिदन्या कन्ययेत्यादौ विभक्तिनिमित्तेऽनादेशे सति की सिद्धो भवति। एवं यासेत्यादिषु अकारादेशे आवपि ॥१॥ “अधातूदृदितः ॥२४॥२॥ धातुवर्जितो य उदित ऋदिच प्रययोऽप्रत्ययो वा तदन्तानाम्नः स्त्रियां वर्तमानात् ङोः प्रत्ययो भवति । उदित, भवती । गोमती। यवमती । प्रेयसी । विपी । ऋदित , पचन्ती । दीव्यन्ती । महती । एषु प्रसय उदित् तदन्तं नाम । अतिभवती । अतिमहती । अत्र नामाव्युत्पत्तिपक्षे उदित् तदन्तं समासनाम । भवती महतीति तु व्यपदेशिवद्भावेन तदन्तम् । निर्गोमती अतिपुंसीत्यत्र 'प्रत्ययस्योदित्त्वात् गोमदादिशब्दोऽपि उदित्तेन तदन्तं समासनाम । अधात्विति किम् । सुकन् । मुकंसौ। सुहिन् । मुहिसौ स्त्रियौ ॥२॥ अञ्चः ॥ २॥४।३ ॥ अञ्चन्तानाम्नः खियां कीर्भवति । प्राची। प्रतीची। अपाची । उदीची ॥३॥
णरवराघोपानो रश्च ॥२।४।४॥ वन इति वनकनिष्वनिपामविशेषेण ग्रहणम् । णकारान्तात्स्वरान्तादघोपान्ताच यो विहितो बन्यत्ययस्तदन्तानाश स्त्रियां कीर्भवति । वनोऽन्तस्य च तत्संनियोगे रो भवति । ण, ओणू, अवावरी। स्वर, धा, धीवरी । अतिधीवरी । पा, पीवरी । कृ, सहकृत्वरी । सुत्वरी। अघोप, दृश् मेरुदृश्वरी । णस्वराघोषादिति किम् । युर, सहयुध्वा । यज्वा स्त्री । विहितविशेषणं किम् । शृणातीति शर्वरी । स्वराद्विहितागणे कृते घोपवतो यथा स्यात् । वन इति किम् । श्वयतेः 'श्वन्मातरिश्चन्-इत्यादिनाऽनि प्रत्यये अन्तलोपे च सति थुनी । “अतिथुनी । महेनलोपेऽवादेशे च मघोनी । नान्तत्वादेव
काशिका ॥-अधातू-॥ अधात्विति पर्युदासाश्रयणात्तस्य च विधिप्रधानत्वाव्यतिपेधस्यानुमितत्वेन गौणत्वात् गोमन्तमिच्छतीति स्त्री गोमत्यतीति विधिनिषेधप्राप्ती अधातुत्वाश्रितो विधिरेव न तु धातुत्याश्रित प्रतिपेध ॥-गोमदादिशब्दोऽप्युदिदिति । अवयवधर्मेण समुदायोऽपि ग्यपदिश्यते । अन्नावयव उदित् । तद्धम्मण समुदायोऽपीत्यर्थ ॥-सुकन्नित्यादि । 'महतो.'-इत्यन्न महत्साहचर्यारिफयन्तस्य कसो न ग्रहणमित्यर्थस्य ज्ञापितत्यान न दीर्घ ॥-प्रत्ययस्योदित्त्वादिति । अजादेरित्यत्रावृत्तिव्याल्यानेन तदन्तस्य ग्रहणे सिद्धे यदिद व्याख्यान तयुक्त्यन्तरस्यापि दर्शनार्थम् । यत एकस्यापि साध्यस्य सिध्यर्थ बढ्योऽपि युक्तय उपन्यस्यन्ते ॥-अञ्चः ॥ अञ्च इति कृतनलोपाभावस्य धातुरूपस्याञ्जेनिश । तेनाचाविवक्षणे नलोपाभावे तदविवक्षणे लोपेऽपि डी पिद्ध । अच इति निर्देशे तु 'अच् प्राग्दीर्घश्च'-इतिवत् कृतनलोपस्यैव स्यात् । इत्थ च प्राचीप्रत्यञ्चीत्यादी डी गच्छेत् ॥-णस्वराघो-॥ वनते कियन्तस्य 'अहन्पञ्चमस्य'-इति दीर्घत्वे वनिति रूपाभावाद्विजन्तस्य च प्रयोगादर्शनात्प्रत्ययस्यैव ग्रहणमित्याह-वन इति ॥-वनक्कनिपित्यादि ॥ ननु निरनुबन्धग्रहणे न सानुबन्धकस्येति कनिपड्वनिपोर्ग्रहण न प्राप्नोति ।
उच्यते । निरनुबन्धग्रहणे कचित्सानुबन्धस्य ग्रहणमिति न्यायान्न दोष ॥-वनोन्तस्येति । ननु प्रत्ययस्पेति सर्वस्यापि प्राप्नोति तत्कथमुक्तमन्तस्येति । सत्यम् । वात् न वन् इति कृते भविष्यइति ॥-अतिशुनीति । पूजित श्वाऽतिश्या स्त्री चेदतिशुनी। यद्वा अतिक्रान्त श्वा ययेति बहुव्रीहि । श्वानमतिकान्तेति कृते 'गोष्ठाते. शुग' इति समासान्त स्यात् ॥-मघोनीति ।