________________
के चित्प्रयोज्यो यो ज्ञाप्यो य आख्यायते तत्रैवेच्छन्ति ॥ ६०तुमोऽर्थे भाववचनात् ॥२॥२॥ ६१॥ क्रियायां क्रियार्थायामुपपदे तुम वक्ष्यते तस्यायें ये भाववाचिनो घनादयः प्रत्यया विधास्यन्ते तदन्ताद्गौणानाम्नः स्वार्थे चतुर्थी भवति । पाकाय ब्रजति । पक्तये व्रजति । पचनाय ब्रजति । इज्यायै व्रजति । पक्तुं यष्टं वा बजतीत्यर्थः । तादर्थ्यस्य प्रत्ययेनैवोक्तत्वाच्चतुर्थी न प्राप्नोतीति शेषपष्ठी हेतुहेतुमद्भावविवक्षायां वा हेतुतृतीया स्यादिति चतुर्थ्यर्थं वचनम् । तुमोथै इति किम् । पाकस्य । त्यागस्य । पाकेन वर्तते । सागेन वर्तते । अध्ययनेन वसति । नात्र क्रियायां क्रियार्थायामुपपदे प्रखयो विहितः किं तहि भावमात्रे पश्चात्तु क्रिययाभिसंवन्ध इति हेतौ तृतीयैव भवति । भाववचनादिति किम् । पक्ष्यतीति गां दास्यतीति च पाचकस्य व्रज्या। गोदायस्य परिसर्या । तुम इति व्यस्तनिर्देश उत्तरार्थः ॥ ६१ ॥ गम्यस्याप्ये ॥२॥२॥६२॥ यस्यार्थो गम्यते न च शब्दः प्रयुज्यते स गम्यः, तस्य तुमो यदाप्यं व्याप्यं तत्र वर्तमानागौणानाम्नश्चतुर्थी भवति । द्वितीयापवादः। एधेभ्यो ब्रजति । फलेभ्यो ब्रजति । एधान् फलानि वाहतूं बजतीत्यर्थः । गम्यस्येति किम् ।एधानाहर्तुं व्रजति। आप्य इति किम् । एधेभ्यो ब्रजति शकटेन। करणान्माभूत् । तुम इत्येव । प्रविश पिण्डी द्वारम् । अत्र भक्षयेति पिधेतीति च गम्यम् ॥६२॥ गतेनवाऽनाते ॥२६॥ गतिः पादविहरणं तस्या गतेराप्येऽनाप्तेऽसंप्राप्ते वर्तमानागौणानाम्नश्चतुर्थी वा भवति । ग्रामं गच्छति । ग्रामाय गच्छति। नगरं व्रजति । नगराय व्रजति । विप्रनष्टः पन्थानं गच्छति, पथे गच्छति । उत्पथेन पन्थानं पथे वा गच्छति । गतेरिति किम् । आदित्यं पश्यति । मेरुं शृणोति । स्त्रियं गच्छति। मनसा मेरुं गच्छतीत्यत्र ज्ञानार्थो गमिः। आप्य इसेव । ग्रामादागच्छति । अनाप्त इति किम् । पन्थानं गच्छति । कृद्योगे तु परत्वात्पष्ठयेव भवति । ग्रामस्य गन्ता । द्वितीयवेसन्ये । ग्रामं गन्ता ।-चतुर्थी चेत्यन्ये ग्रामं गन्ता ग्रामाय गन्तेति ॥६३ ॥ ॥-केचित्विति । भोजशाकटायना । यस्तु मैत्रादिर्जानन् ज्ञाप्यते तत्र न भवतीति । तथा च अन्येषां ग्रन्थे द्विकर्मकोऽय ज्ञापिस्तत्र केचिद्यस्सै आख्यायते तत् ज्ञाप्यं सप्रदानत्वेन प्रतिपन्ना । केचिद्य
आख्यायते तमिति । तन्मते मैत्रमात्मने श्लाघते इत्युदाहरणम् ॥-तुमोऽथा-॥ भवनं भाव भावाकोंर्घज् । बक्तीति प्रवीतीति वा रम्यादिभ्य कर्तर्यनट् । भावस्य वचनो भाववचनस्तस्मात् ।।-पाका४ येति । पक्तुं पक्ष्यते इति वा वाक्धे 'भाववचना.' इति घजादय ॥-गम्यस्या-॥ शब्दोऽर्थवानप्यऽप्रयुज्यमान प्रयुज्यमानश्च भवति । अप्रयुज्यमानश्चार्थप्रकरणशब्दान्तरसन्निधान प्रतीयमानार्थ सच
गम्य इत्युच्यते ॥-एधेभ्यो ब्रजति । ननु एधार्थ व्रजतीति तादर्य एव चतुर्थी भविष्यति किमनेन । उच्यते । बज्याया एधाहरणार्थतायां विश्रामोऽस्ति न त्वेधार्थतायामिति न सिध्यति ॥-गतेनवा-॥ गतिशब्दस्य ज्ञानाद्यर्थत्वेऽप्यनाप्त इति वचनात्पादविहरणरूपैव गतिर्गृह्यते ज्ञानादिव्याप्यस्याऽनाप्तत्वाऽसभवादित्याह-गतिः पादविहरणमिति ॥-स्त्रियं गच्छतीति । भजनार्थोऽत्र गमिर्न गत्यर्थ इति न चतुर्थी ॥-पन्थानं गच्छतीति । अनाप्तेऽसप्राप्ते कर्मणि चतुर्थी, पन्थास्तु संप्राप्त इति चतुर्यभाव ॥-द्वितीयैवेत्यन्य इति । सारसग्रहकारादय । ते हि गत्यर्थकर्मणि द्वितीयाचतुर्थ्या विति सूत्रेण कर्मणि द्वितीयायां प्राप्ताया तदपवादो वैकल्पिकी चतुर्थ्यारभ्यते इति पक्षे द्वितीया सिद्धैवेति द्वितीयाग्रहणात् । ग्राम गन्तेत्यत्र कृत कर्मणि अपवादभूतामपि पष्टी बाधित्वा द्वितायैव भवति चतुर्थी तु पष्टया परत्वाद्वाध्यत एवेति मन्यन्ते ॥-चतुर्थी चेत्यन्य इति । उत्पल इत्यर्थ । स पेव मन्यते द्वितीयाविषय इय वैकरिपकी चतुर्थ्यारभ्यते । द्वितीयायाश्चान्नापवादात्कृतोऽपि विपय उपनत इति तद्विषये पक्षे चतुर्थी प्रवर्तत एव ॥-ग्राम गन्ता ग्रामाय गन्तेति । एतेषु चायमसदभिमत पष्ठीपक्ष श्रीशेपभधारकस्यापि संमतः । कथ हि शब्दानां साधुत्वं युक्ति