________________
R- रुचिकृप्यर्थधारिभिः प्रेयविकारोत्तमणेषु ॥२।२।५५ ॥रुच्यर्थैः कृप्यारिणा च धातुना योगे यथाक्रमं प्रेये विकारे उत्तमणे च वर्तमानादौणान्नाम्न2. चतुर्थी भवति । वचनसाम्यं यथासंख्यार्थम् । बहुवचनं तु एकद्रिवहाविति यथासंख्याभावार्थम् । रुच्यर्थैः प्रेये प्रीयमाणे, जिनदत्ताय रोचते धर्मः । गुरुदत्ताय स्वदते ६. दधि । तस्याभिलापमुत्पादयतीत्यर्थः । प्रेय इति किम् । चैत्राय रोचते मोदको माधुर्येण । माधुर्यशब्दान्न भवति । प्रेयसंबन्धादभिलापकरणार्थस्य रुचेग्रहणम् । तेनेह |
न भवति । सर्वेषामेतद्रोचते कथं वा तवेति । प्रतिभातीत्यर्थः । कथं रोचते मम घृतं सह मुरैः शालयो दधिशरं कुकुराश्च । घृतमेव ममापि रोचते घृत शीतं च सशर्कर पयः । संवन्धमात्रविवक्षायां षष्ठ्येव भविष्यति । कृप्यथैर्विकारे, मूत्राय कल्पते यवागूः । उच्चाराय संपद्यते यवान्नम् । श्लेष्मणे जायते दधि । द्विकाररूपमापया इत्यर्थः । विकार इति किम् । चैत्रस्य कल्पन्ते धनानि । संपद्यन्ते शालयः । गौणादित्येव । मूत्रमिदं संपयते यवागः । उच्चारोऽयं संपद्यते यवान्नम् ॥ शनाच्छो | जायते । गोमयावश्चिकः प्रभवति । मूत्रं संपद्यते यवाग्वाः। यवाग्वा इति च पञ्चमी अपायविवक्षायाम् । धारिणोत्तमणे, चैत्राय शतं धारयति । उत्तमर्ण इति किम् । शत
शब्दान्न भवति । उत्तमो धनिकः ॥ ५५ ॥ प्रत्याङः श्रुवार्थिनि ॥२॥२॥५६॥ प्रत्याभ्यां परेण शृणोतिना युक्तादथिन्यमिलापुके वर्तमानागौणान्नाम्नश्चतुर्थी भवति । द्विजाय गां प्रतिशृणोति । द्विजाय गामाशृणोति । याचितोऽयाचितो वा प्रतिजानीते इयर्थः । प्रत्याङ इति किम् । चैत्रस्य शृणोति । अर्थिनीति किम् । द्विजाय गां प्रतिशृणोतीत्यत्र गवि माभूत् ॥५६॥ प्रत्यनोगुणाख्यातरि ॥२।२।५७॥ प्रसनुभ्यां परेण गृणातिना योगे आख्यातरि वर्तमानाद्गौणान्नाम्नश्चतुर्थी भवति । आचार्याय प्रतिगृणाति। आचार्यायानुगृणाति । आचार्योक्तमनुवदति, प्रशंसन्तं वा प्रोत्साहयतीत्यर्थः । प्रत्यनोरिति किम् । आचार्य गृणाति । आख्यायूपादिहेतुभूतस्य दा देहेतुतृतीया न अगौणत्वात् ॥-रुचिक्लप्यर्थ-॥-संवन्धमात्रेति । अत्र सत्यपि प्रेयत्वे प्रेयता न विवक्षिता अपि तु तक्रियासबन्धमात्रमिति न चतुर्थी ॥-मत्राय कल्पते यवागूः । यवागू. की सपद्यते । कि सपद्यते, मूत्र, मूत्ररूपमित्यर्थ । ननु मूत्रयवागूशब्दयोर्खयोरपि सपद्यते इति क्रियया सह संबन्धाद् गौणत्वाभावात् कथं मूत्रशब्दाचतुर्थी । उच्यते । एतत्सूत्रसामर्थ्यादेवात्र गौणमुरयभावेन क्रियासंबन्धात् मूत्रस्य गौणत्वम् । तथाहि-प्रथम यवाग्वा सह क्रियाया सबन्ध पश्चान्मूत्रस्येति । गौणादिति व्यावृत्युदाहरणे तु मूत्रादेविशेष्यार्थ मूत्रादिक प्रथमं क्रियया संवन्धनीयम् । यद्वा मूत्रायेति कोऽर्थः, मूत्ररूपविकारसबन्धित्वेन यवागू सपद्यते इत्यर्थः ॥-तद्विकाररूपमिति । अन्न तस्य यवाग्वादेविकारस्तस्य रूपं कर्मतापनमापद्यते प्राप्नोति । मूत्र कर्तृ । अकर्मकोपि पदिस्तदा तद्विकाररूपं मूत्रं कर्तृ आपद्यते सपद्यते इत्यर्थ । अब प्रथमाया प्राप्तौ चतुर्थी ।-चैत्रस्य कल्पन्ते इत्यत्र चैत्रो धनादीना स्वामी न विकार इति न भवति ॥-मूत्रं संपद्यते यवाग्वा इति । यवाग्वा अपगच्छदिद मूत्र संपद्यत इत्यपायः ॥-चैत्राय शतं धारयतीति । ड्त् अवस्थाने धियते तिष्ठति स्वरूपान्न प्रच्यवते शतं कर्तृ । तत् ध्रियमाण प्रयुक्त इति णिग् । अपरपठितथुरादौ वा ॥–उत्तमर्णो धनिक इति । यो हि धन प्रयुक्ते स लोके उत्तमत्वेन प्रसिद्धो यस्तु गृह्णाति सोऽधमत्वेन । उत्तमाधमाभ्यां सबद्धमृणमपि तथैव व्यपदेष्टव्यमित्युत्तममृण यस्येति कार्यम् ॥-प्रत्याङः-|-अर्थिनीति । अर्थयते इत्यर्थी अभिलापुक. । अर्थणि उपयाचने इति पाठात् ॥ याचितोऽयाचितो वेति । अधमत्वाचाचमाने महत्त्वादश्याचमानेऽपि केनाप्याकारादिना स्वाभिलापं समर्पयति हिजादा ओमिति तस्य प्रतिजानीते प्रतिपद्यते अभ्युगच्छतीत्यर्थ ॥-प्रत्यनो--आचार्य गृणातीति । आचष्टे इत्यर्थः ।
Councemecacadredeo
PVAN