________________
क्रोष्ट्रीभ्याम् । हे क्रोष्टि । पञ्चभिः क्रोट्रीभिः क्रोतेरिति विगृह्य 'मूल्यै' क्रीते' (६।४।१५०) इतीकण् । तस्य 'अनाम्न्यदिः प्लुप्' (६।४।१४१ ) इति * लपि, उन्धादेगौणस्य --(२।४।९४) इत्यादिना डीनिवृती, पञ्चक्रोष्टभी रथैः। अत्र निनिमित्तखादादेशस्य डीनिवृत्तावपि निवृत्तिन भवति । अत एवं रच 'क्यङ्मानिपित्तद्धिते' (३।२।५०) इति पुंबद्भावो न भवति । पुंवद्भावेनापि हि आदेश एवं निवर्तनीय । स च निमित्तत्वाश्रयणेन डीनिवृत्तावपि
निवर्तते एव ॥ ९३ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ प्रथमस्याध्यायस्य चतुर्थ. पादः ॥१४॥
सोत्कण्ठमङ्गलगतैः कचकर्षणैश्च वाजचुम्बननखक्षतकर्मभिश्च ॥ श्रीमूलराजहतभूपतिभिर्विलेसुः संख्येऽपि खेऽपि च शिवाश्च सुरस्त्रियश्च ॥ १ ॥
॥ समाप्तोऽयं वृहद्वृत्ती प्रथमोऽध्यायः ॥