SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सू. ८-३-१३६ ] स्वोपज्ञवृत्तिसहितम् ९५ चतुर्थ्याः षष्ठी ॥ ८ । ३ । १३१ ॥ चतुर्थ्या: स्थाने षष्ठी भवति || मुणिस्स | मुणीण देइ || नमो देवरस | देवा ॥ १३१ ॥ । ३ । १३२ ॥ तादर्वा ॥ तादर्थ्यविहितस्य ङेश्चतुर्थ्येकवचनस्य स्थाने षष्ठी वा भवति || देवस्स देवाय । देवार्थमित्यर्थः ॥ ङेरिति किम् । देवाण ॥ १३२ ॥ 1 1 वधाड्डाइव वा ।। ८ । ३ । १३३ ॥ वधशब्दात्परस्य तादर्थ्यङेर्डिद् आइः षष्ठी च वा भवति ॥ बहाई वहस्स वहाय । वधार्थमित्यर्थः ॥ १३३ ॥ क्वचिद् द्वितीयादेः || ८ | ३ | १३४ ॥ द्वितीयादीनां विभक्तीनां स्थाने षष्ठी भवति क्वचित् ॥ सीमा रस्स वन्दे । तिस्सा मुहस्स भरिमों । अत्र द्वितीयायाः षष्ठी ॥ धणस्य लो | धनेन लब्ध इत्यर्थः । चिरस्स मुक्का । चिरेण मुक्तेत्यर्थः । तेसिमेअमणाइण्णं । तैरेतदनाचरितम् । अत्र तृतीयायाः ॥ चोरस्स बी । चोराहिभतीत्यर्थः । इअराई जाण लहुअख्खराई पायन्तिमिल्ल - सहिआण । पादान्तेन सहितेभ्य इतराणीति । अत्र पञ्चम्याः ॥ पिट्ठीए केस - भारो | अत्र - सप्तम्याः ॥ १३४ ॥ द्वितीया - तृतीययोः सप्तमी ।। ८ । ३ । १३५ ॥ द्वितीयतृतीययोः स्थाने क्वचित् सप्तमी भवति || गामे वसामि । नयरे न जामि । अत्र द्वितीयायाः || मइ वेविरीए मलिआई || तिसु तेसु अलंकिआ पुहवी । अत्र तृतीयायाः ॥ १३५ ॥ पञ्चम्यास्तृतीया च ॥ ८ । ३ । १३६ ।। पञ्चम्याः स्थाने क्वचित् तृतीयासप्तम्यौ भवतः ॥ चोरेण बीहइ । चोराद्वितीत्यर्थः ॥ अन्तेउरे रमिउमागओ राया । अन्तःपुराद् रन्त्वागत इत्यर्थः ॥ १३६ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy