________________
९४
प्राकृतव्याकरणम् [ सू. ८-३-१२५
चिट्ठन्ति । गिरीओ गुरूओ आगओ । गिरीण गुरूण धणं || 'भ्यसि वा ' (८-३-१३) इत्येतत्कार्यातिदेशो न प्रवर्तते 'इदुतो दीर्घः' (८-३-१६) इति नित्यं विधानात् ॥ ' टाण - शस्येत् ' ( ८-३-१४) 'भिरभ्यस्सुपि ' (८-३-१५) इत्येतत्कार्यातिदेशस्तु निषेत्स्यते (८-३- १२९)॥१२४॥ न दीर्घे णो ॥ ८ । ३ । १२५ ।।
इदुदन्तयोरर्थाज्जस्-शस्ङस्यादेशे णो इत्यस्मिन् परतो दीर्घो न भवति ।। अग्गिणो । वाउणो ।। णो इति किम् । अग्गी । अग्गीओ ॥ १२५ ॥ ङसेर्लुक् ।। ८ । ३ । १२६ ।।
I
आकारान्तादिभ्योदन्तवत्प्राप्तो सेर्लुग् न भवति || मालत्तो । मालाओ । मालाउ । मालाहिन्तो आगओ ।। एवं अग्गीओ । वाऊओ । इत्यादि ॥ १२६॥ भ्यसश्व हिः ।। ८ । ३ ॥ १२७ ॥
आकारान्तादिभ्योदन्तवत्प्राप्तो भ्यसो ङसेच हिर्न भवति || मालाहिन्तो । मालासुन्तो । एवं अग्गीहिन्तो । इत्यादि || मालाओ । मालाउ । मालाहिन्तो ॥ एवम् अग्गीओ । इत्यादि ॥ १२७ ॥
डेर्डेः ।। ८ । ३ । १२८ ॥
आकारान्तादिभ्योदन्तवत्प्राप्तो डेर्डे न भवति ॥ अग्गिमि । वाउम्मि । दहम्म । महुमि ॥ १२८ ॥
एत् ।। ८ । ३ ।। १२९ ।। आकारान्तादीनामर्थात् टाशभिस्भ्यस्सुप्सु परतोदन्तवद् एवं न भवति || हाहाण कयं ॥ मालाओ पेच्छ || मालाहि कयं ॥ मालाहिन्तो । तो आग || मालासु ठिअं ॥ एवं अग्गिणो । वाउणो । इत्यादि ॥ १२९ ॥
। ३ । १३० ॥
द्विवचनस्य बहुवचनम् ॥ सर्वासां विभक्तीनां स्यादीनां त्यादीनां च द्विवचनस्य स्थाने बहुवचनं भवति ॥ दोणि कुणन्ति । दुवे कुणन्ति । दोहिं । दोहिन्तो । दोसुन्तो । दो । हत्था । पाया । श्रणया । नयणा ॥ १३० ॥