________________
सू. ८-३-१२४ ]
स्वोपज्ञवृत्तिसहितम्
९३
चउण्हं । पंचण्हं छण्हं । सत्तण्हं । अहं । नवहं दसहं । पण्णरसहं दिवसाणं । अट्ठारसहं समण - साहसीणं ॥ कतीनाम् । इहं ॥ बहुलाधिकाराद् विंशत्यादेर्न भवति ॥ १२३ ॥
शेषेदन्तवत् ॥ ८ । ३ । १२४ ॥
उपयुक्तादन्यः शेषस्तत्र स्यादिविधिरदन्तवदतिदिश्यते । येष्वाकाराद्यन्तेषु पूर्व कार्याणि नोक्तानि तेषु 'जस् - शसोलुक्' ( ८- ३-४ ) इत्यादीनि अदन्ताधिकारविहितानि कार्याणि भवन्तीत्यर्थः ।। तत्र 'जस्शसोलुक्' इत्येतत्कार्यातिदेशः । माला गिरी गुरू सही बहू रेहन्ति पच्छ वा ॥ 'अमोस्य' (८-३-५) इत्येतत्कार्यातिदेशः । गिरिं गुरुं सहिं बहुं गामणिं खलपुं पेच्छ ।। ‘टा-आमोर्णः' (८-३-६) इत्येतत्कार्यातिदेशः । हाहाण कयं । मालाण गिरीण गुरूण सहीण वहूण धणं । टायास्तु । 'टाणा ' (८-३-२४ ) ॥ ‘टा-ङस्-डेरदादिदेद्वा तु ङसेः' (८-३-२९) इति विधिरुक्तः ॥ 'भिसो हि हि हिं' (८-३-७) इत्येतत्कार्यातिदेशः । मालाहि गिरीहि गुरूहि सही हि वहूहि कयं । एवं सानुनासिकानुस्वारयोरपि ।। ' ङसेस् तो-दो - हि - हिन्तो-लुकः ' ( ८-३–८ ) इत्येतत्कार्यातिदेशः । मालाओ । मालाउ । मालाहिन्तो ॥ बुद्धीओ | बुद्धीउ । बुद्धी हितो || घेओ । घेणूउ । घेणूहिन्तो आगओ । हलुकौ तु प्रतिषेत्स्येते (८-३–१२७, १२६. ) ' भ्यस् तो दो दु हि हिन्तो सुन्तो' ( ८- ३ - ९ ) इत्येतत्कार्यातिदेशः । मालाहिन्तो । मालासुन्तो । हिस्तु निषेत्स्यते ( ८-३-१२७ ) । एवं गिरीहिन्तो । इत्यादि || 'ङसः स्सः " ( ८-३ - १० ) इत्येतत्कार्यातिदेशः । गिरिस्स । गुरुस्स । दहिस्स | महुस्स ॥ स्त्रियां तु ' टा - ङस् - डे : ० ( ८-३ - २९ ) इत्याद्युक्तम् ॥ 'डे म्मि डे : ' ( ८-३ - ११ ) इत्येतत्कार्यातिदेशः । गिरिम्मि । गुरुम् । हम्म । महुम्म । डेस्तु निषेत्स्यते ( ८-३ - १२८ ) । स्त्रियां तु 'टा- ङस् - ङ: ० - डे : ० ' ( ८-३-२९ ) इत्याद्युक्तम् ॥ ' जस्-शस् - ङसि - तो- दो- द्वामि दीर्घः ' ( ८-३ - १२ ) इत्येतकार्यातिदेशः । गिरी गुरू
"