________________
प्राकृतव्याकरणम् [सू. ८-३-११६ . अम्ह-मम-मह-मज्झा ॥ ८।३।११६ ॥ अस्मदो ङौ परत एते चत्वार आदेशा भवन्ति । डेस्तु यथाप्राप्तम् ॥ अम्हम्मि ममम्मि मह म्मि मज्झम्मि ठिअं ॥ ११६ ॥
सुपि ॥ ८।३।११७॥ - अस्मदः सुपि परे अम्हादयश्चत्वार आदेशा भवन्ति ॥ अम्हेसु । ममेसु । महेसु मज्झेसु । एत्वविकल्पमते तु । अम्हसु । ममसु । महसु । मज्झसु ॥ अम्हस्यात्वमपीच्छत्यन्यः । अम्हासु ॥ ११७॥
त्रेस्ती तृतीयादौ ॥ ८।३ । ११८ ॥ त्रेः स्थाने ती इत्यादेशो भवति तृतीयादौ ॥ तीहिं कयं । तीहिन्तो आगओ । तिण्हं धणं । तीसु ठिअं ॥ ११८॥
द्वेर्दो वे ॥ ८।३।११९ ॥ द्विशब्दस्य तृतीयादौ दो वे इत्यादेशौ भवतः ॥ दोहि वेहि कयं । 'दोहिन्तो वेहिन्तो आगओ । दोण्हं वेण्हं धणं । दोसु वेसु ठिअं ॥११९॥
दुवे दोणि वेण्णि च जस्-शसा ॥ ८।३ । १२० ॥ जस्-शस्भ्यां सहितस्य द्वेः स्थाने दुवे दोण्णिा वेण्णि इत्येते दो वे इत्येतौ च आदेशा भवन्ति । दुवे दोण्णि वेण्णि दो वे ठिआ पेच्छ वा । 'व्हस्वः संयोगे' (८-१-८४) इति ह्रस्वत्वे दुण्णि विण्णि ॥ १२० ॥
स्तिण्णिः ॥ ८।३। १२१॥ जस्-शस्भ्यां सहितस्य त्रेः स्थाने तिण्णि इत्यादेशो भवति ॥ तिण्णि ठिआ पेच्छ वा ॥ १२१ ॥
चतुरश्चत्तारो चउरो चत्तारि ॥ ८।३ । १२२॥ चतुरशब्दस्य जस्-शस्भ्यां सह चत्तारो चउरो चत्तारि इत्येते आदेशा भवन्ति ॥ चत्तारो । चउरो । चत्तारि चिट्ठन्ति पेच्छ वा ॥ १२२ ॥
संख्याया आमो ग्रह हं ॥ ८।३।१२३॥ . संख्याशब्दात्परस्यामो ह हं. इत्यादेशौ भवतः ॥ दोण्ह । तिण्ह । चउण्ह । पञ्चण्ह । छण्ह । सत्तण्ह । अट्ठण्ह ॥ एवं दोण्हं । तिण्हं ।