________________
९६
प्राकृतव्याकरणम् [सू. ८-३-१३७
सप्तम्या द्वितीया ॥ ८।३ । १३७॥ • सप्तम्याः स्थाने क्वचिद द्वितीया भवति ॥ विज्जुज्जोयं भरइ रत्तिं ॥ आर्षे तृतीयापि दृश्यते । तेणं कालेणं । तेणं समएणं । तस्मिन् काले । तस्मिन् समये इत्यर्थः ॥ प्रथमाया अपि द्वितीया दृश्यते । चउवीसं पि जिणवरा । चतुर्विंशतिरपि जिनवरा इत्यर्थः ॥ १३७ ॥
क्यडोर्यलुक् ॥ ८।३। १३८ ॥ क्यडन्तस्य-क्यक्षन्तस्य वा सम्बन्धिनो यस्य लुग् भवति ॥ गरुआइ । गरुआअइ । अगुरुर्गुरुर्भवति गुरुरिवाचरति वेत्यर्थः ॥ क्यङ् । दमदमाइ । दमदमाअ६ ॥ लोहिआइ । लोहिआअइ ॥ १३८ ॥
त्यादीनामाद्यत्रयस्याद्यस्येचेचौ ॥ ८ । ३ । १३९ ॥ त्यादीनां विभक्तीनां परस्मैपदानामात्मनेपदानां च संबन्धिनः प्रथमत्रयस्य यदाद्ययं वचनं तस्य स्थाने इच् एच् इत्येतावादेशौ भवतः ॥ हसइ । हसए । वेवइ । वेवए । चकारौ ' इचेचः' (८-४-३१८ ) इत्यत्र विशेषणार्थों ॥ १३९॥
द्वितीयस्य सि से ॥ ८ । ३ । १४० ॥ त्यादीनां परस्मैपदानामात्मनेपदानां च द्वितीयस्य त्रयस्य सम्बन्धिन आद्यवचनस्य स्थाने सि से इत्येतावादेशौ भवतः ॥ हससि । हससे । वेवसि । वेवसे ॥ १४० ॥
तृतीयस्य मिः ॥ ८।३। १४१ ॥ त्यादीनां परस्मैपदानामात्मनेपदानां च तृतीयस्य त्रयस्याद्यस्य वचनस्य स्थाने मिरादेशो भवति ॥ हसामि । वेवामि ॥ बहुलाधिकाराद् मिवेः स्थानीयस्य मेरिकारलोपश्च ॥ बहु-जाणय रूसिउं सक्कं । शक्नोमीत्यर्थः ॥ न मरं । न म्रिये इत्यर्थः ॥ १४१ ॥
बहुष्वाद्यस्य न्ति न्ते इरे ॥ ८ । ३ । १४२ ॥ त्यादीनां परस्मैपदानामात्मनेपदानामाद्यत्रयसम्बन्धिनो बहुषु वर्तमानस्य वचनस्य स्थाने न्ति न्ते इरे इत्यादेशा भवन्ति ॥ हसन्ति । वेवन्ति । हसि