SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सू. ८-३-१४७] स्वोपज्ञवृत्तिसहितम् जन्ति । रमिज्जन्ति । मज्जन्ते खे मेहा ॥ बीहन्ते रक्खसाणं च ॥ उप्पजन्ते कइ-हिअय-सायरे कव्व-रयणाई ॥ दोण्णि वि न पहुप्पिरे बाहू । न प्रभवत इत्यर्थः ॥ विच्छुहिरे । विक्षुभ्यन्तीत्यर्थः ॥ क्वचिद् रे एकत्वेपि । सूसइरे गाम-चिक्खल्लो । शुप्यतीत्यर्थः ॥ १४२ ॥ मध्यमस्येत्था-हचौ ॥ ८ । ३ । १४३ ॥ त्यादीनां परस्मैपदात्मनेपदानां मध्यमस्य त्रयस्य बहुषु वर्तमानस्य स्थाने इत्या हच् इत्येतावादेशौ भवतः ॥ हसित्था । हसह । वेवित्था । वेचह ॥ बाहुलकादित्थान्यत्रापि । यद्यत्ते रोचते । जं जं ते रोइत्था । हच् इति चकारः 'इह-हचोर्हस्य' (८-४-२६८) इत्यत्र विशेषणार्थः ॥१४३॥ तृतीयस्य मो-मु-माः॥ ८ । ३। १४४ ॥ ___ त्यादीनां परस्मैपदात्मनेपदानां तृतीयस्य त्रयस्य सम्बन्धिनो बहुषु वर्तमानस्य वचनस्य स्थाने मो मु म इत्येते आदेशा भवन्ति ॥ हसामो । हसामु । हसाम । तुवरामो । तुवरामु । तुवराम ॥ १४४ ॥ __ अत एवैच से ॥ ८।३। १४५ ॥ त्यादेः स्थाने यौ एच् से इत्येतावादेशावुक्तौ तावकारान्तादेव भवतो नान्यस्मात् ॥ हसए । हससे ॥ तुवरए । तुवरसे ॥ करए । करसे ॥ अत इति किम् । ठाइ । ठासि ॥ वसुआइ । वसुआसि ॥ होइ । होसि । एवकारोकारान्ताद् एच से एव भवत इति विपरीतावधारणनिषेधार्थः । तेनाकारान्ताद् इच् सि इत्येतावपि सिद्धौ ॥ हसइ । हससि ॥ वेवइ । वेवसि ॥ १४५ ॥ सिनास्तेः सिः॥ ८।३। १४६॥ सिना द्वितीयत्रिकादेशेन सह अस्तेः सिरादेशो भवति ॥ निट्ठरो जं सि॥ सिनेति किम् । सेआदेशे सति अस्थि तुमं ॥ १४६ ॥ मि-मो-मैहि-म्हो-म्हा वा ।। ८।३। १४७॥ अस्तेर्धातोः स्थाने मि मो म इत्यादेशैः सह यथासंख्यं म्हि म्हो म्ह इत्यादेशा वा भवन्ति ॥ एस म्हि । एषोस्मीत्यर्थः ॥ गय म्हो । गय म्ह ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy