SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् [सू. ८-३-९० युष्मदस्तं तुं तुवं तुह तुमं सिना ॥ ८।३।९०॥ युष्मदः सिना सह तं तुं तुवं तुह तुम इत्येते पञ्चादेशा भवन्ति ॥ तं तुं तुवं तुह तुमं दिह्रो ॥ ९० ॥ भे तुम्भे तुज्झ तुम्ह तुम्हे उय्हे जस . ८।३। ९१॥ युष्मदो जसा सह भे तुब्भे तुज्झ तुम्ह तुम्हे उव्हे इत्येते षडादेशा भवन्ति ॥ भे तुब्भे तुज्झ तुम्ह तुम्हे उव्हे चिट्ठह । 'भो म्हज्झौ वा' (३-१०४ ) इति वचनात् तुम्हे । तुज्झे । एवं चाष्टरूप्यम् ॥ ९१ ॥ तं तुं तुमं तुवं तुह तुमे तुए अमा ॥ ८।३। ९२॥ युष्मदोमा सह एते सप्तादेशा भवन्ति ॥ तं तुं तुमं तुवं तुह तुमे तुए वन्दामि ॥ ९२ ॥ वो तुज्झ तुब्भे तुम्हे उय्हे भे शसा ॥ ८ । ३ । ९३ ॥ युष्मदः शसा सह एते षडादेशा भवन्ति ॥ वो तुज्झ तुब्भे । 'ब्भो म्हज्झौ वा' इति वचनात् तुम्हे तुज्झे तुम्हे उरहे भे पेच्छामि ॥ ९३ ॥ भे दि दे ते तइ तए तुमं तुमइ तुमए तुमे तुमाइ टा ॥८। ३ । ९४॥ ___ युष्मदष्टा इत्यनेन सह एते एकादशादेशा भवान्त ॥ भे दि दे ते तइ तए तुमं तुमइ तुमए तुमे तुमाइ जम्पिअं ॥ ९४ ॥ भे तुब्भेहिं उज्झेहिं उम्हेहिं तुम्हेहिं उव्हेहिं भिसा ॥ ८ । ३ । ९५ ॥ · युष्मदो भिसा सह एते षडादशा भवन्ति ॥ भे। तुब्मेहिं । 'भो म्हज्झौ वा' इति वचनात् तुम्हहिं तुज्झेहिं उज्झेहिं उन्हेहिं तुम्हहिं उव्हेहिं भुत्तं । एवं चाष्टरूप्यम् ॥ ९५ ॥ तइ-तुव-तुम-तुह-तुब्भा ङसौ ॥ ८।३ । ९६ ॥ युष्मदो डसौ पञ्चम्येकवचने परत एते पञ्चादेशा भवन्ति । ङसेस्तु त्तोदोदुहिहिन्तोलुको यथाप्राप्तमेव ॥ तइत्तो । तुवत्तो । तुमत्तो । तुहत्तो । तुब्भत्तो । 'भो म्हज्झौ वा' इति वचनात् तुझत्तो । तुज्झत्तो॥ एवं दोदुहिहिन्तोलुक्ष्वप्युदाहार्यम् ॥ तत्तो इति तु त्वत्त इत्यस्य वलोपे सति ॥ ९६ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy