SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सू. ८-३-१० स्वोषज्ञवृत्तिसहितम् तुम्ह तुब्भ तहिन्तो उसिना ॥ ८ । ३ । ९७॥ युष्मदो उसिना सहितस्य एते त्रय आदेशा भवन्ति ॥ तुम्ह तुब्भ तहिन्तो आगओ । 'ब्भो म्हज्झौ वा ' इति वचनात् तुझ । तुज्झ । एवं च पञ्च रूपाणि ॥ ९७॥ तुब्भ-तुम्होरहोम्हा भ्यसि ॥ ८।३ । ९८॥ युष्मदो भ्यसि परत एते चत्वार आदेशा भवन्ति ॥ भ्यसस्तु यथाप्राप्तमेव ॥ तब्भत्तो । तुम्हत्तो । उहत्तो । उह्मत्तो 'ब्भोम्हज्झौवा' इति वचनात् तुम्हत्तो । तुज्झत्तो ॥ एवं दोदुहिहिन्तोष्वप्युदाहार्यम् ॥ ९८ ॥ तइ-तु-ते-तुम्हं-तुह-तुहं-तुव-तुम-तुमे-तुमो-तुमाइ-दि-दे-इ ए-तुब्भोभोव्हा ङसा ।। ८ । ३ । ९९ ॥ युष्मदो डसा षष्ठयेकवचनेन सहितस्य एते अष्टादशादेशा भवन्ति । तइ । तु । ते । तुम्हें । तुह । तुहं । तुव । तुम । तुमे । तुमो । तुमाइ । दि । दे। इ । ए । तुब्भ । उब्भ । उयह धणं ॥ 'भो म्ह-ज्झौवा' इति वचनात् तुम्ह । तुज्झ । उम्ह । उज्झ । एवं च द्वाविंशती रूपाणि ॥९९॥ तु वो भे तुब्भ तुब्भं तुब्माण तुवाण तुमाण तुहाण उम्हाण आमा ॥ ८।३।१००॥ युष्मद आमा सहितस्य एते दशादेशा भवन्ति ॥ तु । वो । भे। तुब्भ । तुब्भं । तुब्माण । तुवाण । तुमाण । तुहाण । उम्हाण । 'क्त्वास्यादर्ण-स्त्रो (८-१-२७) इत्यनुस्वारे तुब्भाणं । तुवाणं । तुमाणं । तुहाणं । उम्हाणं ॥ 'भो म्ह--ज्झौ वा' इति वचनात् तुम्ह । तुज्झ । तुम्हें । तुझं । तुम्हाण । तुम्हाणं । तुज्झाण । तुज्झाणं धणं । एवं च त्रयोविंशती रूपाणि ॥ १०० ॥ तुमे तुमए तुमाइ तइ तए ङिना ॥ ८।३।१०१॥ • युप्मदो ङिना सप्तम्येकवचनेन सहितस्य एते पञ्चादेशा भवन्ति ॥ तुमे तुमए तुमाइ तइ तए ठिअं ॥ १०१ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy