SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् [सू. ८-३-७८ अमेणम् ॥ ८॥३॥७८ ॥ इदमोमा सहितस्य स्थाने इणम् इत्यादेशो वा भवति ॥ इणं पेच्छ । पक्षे । इमं ॥ ७८ ॥ . क्लीबे स्यमेदमिणमो च ॥ ८३७९ ॥ नपुंसकलिङ्गे वर्तमानस्येदमः म्यम्भ्यां सहितस्य इदम् इणमो इणम् च नित्यमादेशा भवन्ति ॥ इदं इणमो इणं धणं चिट्ठइ पेच्छ वा ॥ ७९ ॥ किमः किं ॥ ८॥३॥८॥ ___किमः क्लीबे वर्तमानस्य स्यम्भ्यां सह किं भवति ॥ किं कुलं तुह । किं किं ते पडिहाइ ।।८० ॥ वेद-तदेतदो ङसाम्भ्यां से-सिमौ ॥ ८ । ३ । ८१ ॥ । इदम् तद् एतद् इत्येतेषां स्थाने ङस् आम् इत्येताभ्यां सह यथासंख्यं से, सिम् इत्यादेशौ वा भवतः ॥ इदम् । से सीलम् । से गुणा । अस्य शीलं गुणा वेत्यर्थः ॥ सिं उच्छाहो । एषाम् उत्साह इत्यर्थः ॥ तद् । से सीलं । तस्य तस्या वेत्यर्थः ॥ सिं गुणा । तेषां तासां वेत्यर्थः । एतत् । से अहि। एतस्याहितमित्यर्थः ॥ सिं गुणा । सिं सीलं । एतेषां गुणाः शीलं वेत्यर्थः । पक्षे । इमस्स । इमेसिं । इमाण ॥ तस्स । तेसिं । ताण ।। एअस्स। एए । एआण । इदंतदोरामापि सेआदेशं कश्चिदिच्छति ॥ ८१ ॥ वैतदो उसस्तो ताहे ॥ ८ । ३ । ८२ ॥ एतदः परस्य ङसेः स्थाने तो ताहे इत्येतावादेशौ वा भवतः ॥ एत्तो। एत्ताहे । पक्षे । एआओ । एआउ । एआहि । एआहिन्तो । एआ।।८२॥ त्थे च तस्य लुक् ॥ ८।३। ८३ ॥ एतदस्त्थे परे चकारात् तो ताहे इत्येतयोश्च परयोस्तस्य लुग् भवति । एत्थ । एत्तो । एत्ताहे ॥ ८३ ॥ ___एरदीतौ म्मौ वा ।। ८ । ३। ८४ ॥ एतद एकारस्य ङ्यादेशे म्मौ परे अदीतौ वा भवतः ॥ अयम्मि । । ईयम्मि । पक्षे । एअम्मि ।। ८४ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy