________________
सू. ८-३-७७] स्वोपज्ञवृत्तिसहितम् णाए । तयेत्यर्थः ॥ जेहिं कयं । तैः कृतमित्यर्थः ॥ णाहिं कयं । ताभिः कृतमित्यर्थः ॥ ७० ॥
किमः कस्त्र-तसोश्च ॥ ८।३।७१ ॥ किमः को भवति स्यादौ तसोश्च परयोः ॥ को । के। कं । के । केण ॥ त्र । कत्थ ॥ तस् । कओ । कत्तो । कदो ॥ ७१ ॥
इदम इमः ॥ ८॥३७२ ।। इदमः स्यादौ परे इम आदेशो भवति ॥ इमो । इमे । इमं । इमे । इमेण ॥ स्त्रियांमपि । इमा ॥ ७२ ॥
पु-स्त्रियोर्न वायमिमिआ सौ ॥ ८॥३।७३ ॥ इदम्शब्दस्य सौ परे अयमिति पुल्लिङ्गे इमिआ इति स्त्रीलिङ्गे आदेशौ वा भवतः ॥ अहवायं कय-कज्जो । इमिआ वाणिअ-धूआ । पक्षे । इमो । इमा ॥ ७३ ॥
सिं-स्सयोरत् ॥ ८।३।७४ ॥ इदमः स्सि स्स इत्येतयोः परयोरद् भवति वा ॥ अस्सि । अस्स । पक्षे । इमादेशोपि । इमस्सिं । इमस्स ॥ बहुलाधिकारादन्यत्रापि भवति । एहि । एसु । आहि । एभिः एषु आभिरित्यर्थः ॥ ७४ ॥
डेर्मेन हः ॥ ८॥३।७५ ॥ इदमः कृतेमादेशात् परस्य : स्थाने मेन सह ह आदेशो वा भवति । इह । पक्षे । इमस्सि । इमम्मि ॥ ७५ ॥
न त्थः ।।८।३।७६ ॥ इदमः परस्य 'डेः स्सि-म्मि-त्थाः' ( ३-५९ ) इति प्राप्तः त्यो न भवति ॥ इह । इमस्सिं । इमम्मि ॥ ७६ ॥
णोम्-शस्टा-भिसि ॥ ८।३७७॥ इदमः स्थाने अम्शस्टाभिस्सु परेषु ण आदेशो वा भवति ॥ णं पेच्छ । णे पेच्छ । णेण । जेहिं कयं । पक्षे । इमं । इमे । इमेण । इमेहि ॥७७॥