________________
सू. ८-३-६४ ]
स्वोपज्ञवृत्तिसहितम्
नवानिदमे दो हिं ॥ ८|३|६० ॥ इदम्-एतद्वर्जितात्सर्वादेरदन्तात्परस्य डेर्हिमादेशो वा भवति ॥ सव्वहिं । अन्नहिं । कहिं । जहिं । तहिं ॥ बहुलाधिकारात् किंयत्तद्भयः स्त्रियामपि । काहिं । जाहिं । ताहिं ॥ बाहुलकादेव 'किंयत्तदोस्यमामि' (८-३-३३) इति ङीर्नास्ति ॥ पक्षे । सव्वस्सि । सव्वम्मि । सव्वत्थ । इत्यादि ॥ स्त्रियां तु पक्षे । काए । कीए । जाए। जीए। ताए। तीए ॥ इदमेतद्वर्जनं किम् । इमस्सि । एअस्सि ॥ ६० ॥
1
८३
आमो डेसिं ॥ ८ । ३ । ६१ ॥
सव्वेोसें ।
1
सर्वादेरकारान्तात्परस्यामो डेसिमित्यादेशो वा भवति ॥ अन्नेसिं । अवरेसिं । इमेसिं । एएसिं । जेसिं । तेसिं । केसिं । पक्षे | सव्वाण | अन्नाण । अवराण । इमाण । एआण । जाण । ताण । काण || बाहुलकात् स्त्रियामपि । सर्वासाम् । सव्वेसिं ॥ एवम् अन्नोसें । तासं ॥ ६१ ॥
किंतयां डासः ॥ ८ । ३ । ६२ ।।
किंतद्भयां परस्यामः स्थाने डास इत्यादेशो वा भवति ॥ कास । तास । पक्षे । केसिं । तेसिं ॥ ६२ ॥
किंयत्तद्भयो सः ॥ ८ । ३ । ६३ ॥
एभ्यः परस्य ङस: स्थाने डास इत्यादेशो वा भवति । ' इस स्स: ' ( ३- १० ) इत्यस्यापवादः । पक्षे सोपि भवति ॥ कास । कस्स । जास । जस्स । तास । तस्स ॥ बहुलाधिकारात् किंतद्भयामाकारान्ताभ्यामपि डासादेशो वा । कस्या धनम् । कास धणं ॥ तस्या धनम् । तास धणं । पक्षे । काए । ताए ॥ ६३ ॥
ईन्द्रयः स्सा से || ८ | ३ ॥ ६४ ॥
किमादिभ्य ईदन्तेभ्यः परस्य सः स्थाने स्सा से इत्यादेशौ वा भवतः । 'टा-छस् - डेरदादिदेद्वा तु उसे ' ( ८-३-२९) इत्यस्यापवादः । प्रक्षे अदादोषि || किस्सा | कीसे । कीअ । कीआ । कीइ । कीए | जिस्सा +