SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सू. ८-३-५६ ] स्वोपज्ञवृत्तिसहितम् रण्णो आगओ । पक्षे । रायाओ । रायाउ । रायाहि । रायाहिन्तो। राया॥ ङस् । राइणो रण्णो धणं । पक्षे । रायस्स ॥ ५० ॥ टो णा ॥ ८।३। ५१ ॥ राजन्शब्दात्परस्य टा इत्यस्य णा इत्यादेशो वा भवति ॥राइणा । रण्णा। पक्षे । रायेण कयं ॥ ५१ ॥ इर्जस्य णो–णा-डौ ॥ ८ ॥ ३ । ५२ ॥ राजन्शब्दसंबन्धिनो जकारस्य स्थाने णोणाङिषु परेषु इकारो वा भवति ॥ राइणो चिट्ठन्ति पेच्छ आगओ धणं वा ॥ राइणा कयं । राइम्मि। पक्षे । रायाणो । रण्णो । रायणा । राएण । रायम्मि ॥ ५२ ॥ इणममामा ॥८।३।५३॥ राजनूशब्दसंबन्धिनो जकारस्य अमाम्भ्यां सहितस्य स्थाने इणम् इत्यादेशो वा भवति ॥ राइणं पेच्छ । राइणं धणं । पक्षे । रायं । राईणं॥५३॥ इंद्भिस्भ्यसाम्सुपि ॥८।३। ५४॥ राजनशब्दसम्बन्धिनो जकारस्य भिसादिषु परतो वा ईकारो भवति ॥ भिस् । राईहि ॥ भ्यस् । राईहि । राईहिन्तो राईसुन्तो ॥ आम् । राईणं ।। सुप् । राईसु । पक्षे । रायाणेहि । इत्यादि ॥ ५४ ॥ __ आजस्य टा-ङ-सि उस्सु सणाणोप्वः ॥ ८।३। ५५ ॥ राजन्शब्दसंबन्धिन आज इत्यवयवस्य टाङसिङस्सु णा णो इत्यादेशापन्नेषु परेषु अण् वा भवति ॥ रण्णा राइणा कयं । रण्णो राइणो आग ओ धणं वा ॥ टाङसिङस्स्विति किम् । रायाणो चिद्रन्ति पेच्छ वा ॥ सणाणेष्विति किम् । राएण । रायाओ । रायस्स ॥ ५५॥ पुंस्यन आणो राजवच्च ॥ ८।३।५६ ॥ पुल्लिङ्गे वर्तमानस्यान्नन्तस्य स्थाने आण इत्यादेशो वा भवति । पक्षे । यथादर्शनं राजवत् कार्यं भवति ॥ आणादेशे च 'अतः सेझैः-(८-३--२) इत्यादयः प्रवर्तन्ते । पक्षे तु 'राज्ञः' 'जस्-शस्-ङसि-ङसांणो' (८-३-५०) 'टोणा' (८-३-२४) 'इणममामा' (८-३-५३) इति प्रवर्तन्ते ।।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy