________________
प्राकृतव्याकरणम् [सू. ८-३-४५ आरः स्यादौ ॥ ८ । ३ । ४५॥ स्यादौ परे ऋत आर इत्यादेशो भवति ॥ भत्तारो । भत्तारा । भत्तारं । भत्तारे । भत्तारेण । भत्तारोहिं ॥ एवं कस्यादिषदाहार्यम् ॥ लुप्तस्याद्यपेक्षया। भत्तार-विहिरं ॥ ४५ ॥
. आ अरा. मातुः॥ ८ । ३ । ४६ ॥ मातृसम्बन्धिन ऋतः स्यादौ परे आ अरा इत्यादेशो भवतः ॥ माआ । माअरा । माआउ । माआओ । माअराउ । माअराओ । माअं । माअरं । इत्यादि ॥ बाहुलकाज्जनन्यर्थस्य आ देवतार्थस्य तु अरा इत्यादेशः । माआए कुच्छीए । नमो माअराण ॥ ' मातुरिद्वा' (८-१-१३५ ) इतीत्त्वे माईण इति भवति ॥ 'ऋतामुद' (८-३-४४) इत्यादिना उत्त्वे तु माऊए समन्निअं वन्दे इति ॥ स्यादावित्येव । माइदेवो । माइ-गणो ॥ ४६ ॥
नाम्न्यरः ॥ ८।३ । ४७॥ ऋदन्तस्य नाम्नि संज्ञायां स्यादौ परे अर इत्यन्तादेशो भवति॥ पिअरा। पिअरं । पिअरे । पिअरेण । पिअरेहिं । जामायरा । जामायरं । जामायरे । जामायरेण । जामायरोहिं । भायरा । भायरं । भायरे । भायरेण । भायरेहिं ॥ ४७॥ - आ सौ न वा ॥ ८ । ३। ४८ ॥
ऋदन्तस्य सौ परे आकारो वा भवति ॥ पिआ । जामाया। भाया। कत्ता । पक्षे । पिअरो । जामायरो । भायरो । कत्तारो ॥ ४८ ॥
राज्ञः ॥ ८।३। ४९ ॥ __राज्ञो नलोपेन्त्यस्य आत्वं वा भवति सौ परे ॥ राया। हे राया । पक्षे । आणादेशे । रायाणो ॥ हे राया । हे रायमिति तु शौरसेन्याम् । एवं हे अप्पं । हे अप्प ॥ ४९ ॥
__जस्-शस्-डसि-उसां णो ॥ ८ । ३ । ५०॥ ..
राजन्शब्दात्परेषां णो इत्यादेशो वा भवति ।। जस् । रायाणो चिट्ठन्ति । पक्षे । राया॥ शस् । रायाणो पेन्छ । पक्षे। राया । राए ॥ कसि । राइणो