________________
सू. ८-३-४४] स्वोपज्ञवृत्तिसहितम्
७९ नाम्न्यरं वा ॥ ८।३।४०।। ऋदन्तस्यामन्त्रणे सौ परे नान्नि संज्ञायां विषये अरं इति अन्तादेशो वा भवति ॥ हे पितः । हे पिअरं । पक्षे। हे पि ॥ नाम्नीति किम् । हे कर्तः । हे कर्तार ॥ ४० ॥
वाप ए॥८॥३॥४१॥ आमन्त्रणे सौ परे जप एत्वं व भवति ॥ हे माले। हे महिले। अज्जिए। प्रज्जिए । पक्षे । हे माला। इत्यादि ॥ आप इति किम् । हे पिउच्छा । हे माउच्छा ॥ बहुलाधिकारात् क्वचिदोत्वमपि । अम्मो भणामि मणिए ॥ ४१ ॥
ईदृतोर्हस्वः ॥८।३।४२॥ आमन्त्रणे सौ परे ईदूदन्तयोईस्वो भवति ॥ हे नइ ।' हे गामणि । हे समणि । हे वहु। हे खलपु ।। ४२ ॥ विपः ॥८।३।४३॥ -
स
, किबन्तस्येसूदन्तस्य इस्वो भवंति ॥ गामणिणा । खलपुणा । गामणिणो । खलपुणो ॥ ४३ ॥
ऋतामुदस्यमौसु वा ॥ ८।३। ४४॥ सिअम्औवर्जिते अर्थात् स्यादौ परे ऋदन्तानामुदन्तादेशो वा भवति ॥ जस् । भत्तू । भत्तुणो । भत्तउ। भत्तओ । पक्षे । भत्तारा ॥ शस । भत्तू । भत्तुणो । पक्षे । भत्तारे ॥ टा । भत्तुगा । पक्षे । भत्तारेण ॥ भिस् । भत्तूहिं । पक्षे । भत्तारेहिं । ङसि । भत्तुणो । भत्तुओ। भत्तूउ । भत्तूहि । भत्तूहिन्तो । पक्षे । भत्ताराओ । भत्ताराउ । भत्ताराहि । भत्ताराहिन्तो। भत्तारा । ङस् । भत्तुणो। भत्तुस्स । पक्षे भत्तारस्स । सुप् । भत्तसु । पक्षे भत्तारेसु ॥ बहुवचनस्य व्याप्त्यर्थत्वात् यथादर्शनं नाम्न्यपि उद् वा भवति जसशस्ङसिङस्सु । पिउणो । जामाउणो । भाउणो ॥ टायाम् । पिउणा ॥ भिसि । पिऊहिं ।। सुपि । पिऊसु । पक्षे । पिअरा । इत्यादि ॥ अस्यमौस्विति किम् । सि । पिआ ॥ अम् । पिअरं । औ। पिअरा ॥१४॥