________________
प्राकृतव्याकरणम्
[ सू. ८-३-३४
ती । ताओ । इत्यादि ॥ अस्यमामीति किम् । का। जा । सा । कं ।
1
७८
जं । तं । काण | जाण । ताण ॥ ३३ ॥
छाया - हरिद्रयोः ।। ८ । ३ । ३४ ॥
अनयोराप्प्रसङ्गे नाम्नः स्त्रियां डीर्वा भवति || छाही छाया । हलद्दी
हलद्दा ॥ ३४ ॥
स्वस्रादेर्डा || ८ | ३ | ३५ ॥ वर्तमानात् डा प्रत्ययो भवति ॥
ससा । नन्दा |
L
स्वस्रादेः स्त्रियां दुहि । दुहिहिं । दुहिआसु । दुहिआ-सुओ । गउआ ॥ ३५ ॥ न्हस्वोमि ॥८|३।३६ ॥
स्त्रीलिङ्गस्य नाम्नोमि परे ह्रस्वो भवति || मालं । नई | बहुं । हस माणि । हसमार्ण पेच्छ || अमीति किम् । माला | सही । वहू || ३६ || नामन्त्र्यात्समः ॥ ८ ३ | ३७ ॥
- आमन्त्र्यार्थात्परे सौ,सति ' क्लीबे स्वरान्म् से: ' ( ८-३-२५ ) इति यो म् उक्तः स न भवति ॥ हे तण | हे दहि । हे महु ॥ ३७ ॥ ड़ो दीर्घो वा ॥ ८ । ३ । ३८ ॥
- आमन्त्र्यार्थात्परे सौ सति ' अतः सेर्डो: ' ( ३-२ ) इति यो नित्यं --डोः प्रातो यश्च ' अक्कीबे सौ ' ( ३- १९ ) इति इदुतोरकारान्तस्य च प्राप्तो दीर्घः स वा भवति ॥ हे देव हे देवो ॥ हे खमा-समण हे खमाअज्जो || दीर्घः । हे हरी हे हरि । हे गुरू हे गुरु | जाइ - विसुद्धे पहू । हे प्रभो इत्यर्थः । एवं दोण्णि पहू जिअ -लोभे । पक्षे । हे पहु । एषु प्राप्ते विकल्पः ॥ इह त्वप्राप्ते हे गोअमा हे गोअम । हे कासवा हे कासव । रेरे चप्पलया । रेरे निग्धिणया ॥ ३८ ॥
1
ऋतोद्वा ॥ ८ । ३ । ३९ ॥
ऋकारान्तस्यामन्त्रणे सौ परे अकारोन्तादेशो वा भवति ॥ हे पितः । पिअ || हे दातः । हे दाय । पक्षे । हे पिअरं । हे दायार ॥ ३९ ॥