________________
७६
प्राकृतव्याकरणम्
[ सू. ८-३-२६
न्ति । दहि ँ महुँ || क्लीब इति किम् । बालो । बाला । स्वरादिति इदुतो
निवृत्त्यर्थम् ॥ २५ ॥
1
जस् - शस हूँ - ई-यः सप्राग्दीर्घाः || ८ | ३ | २६ || क्लीबे वर्तमानान्नान्नः परयोर्जस् - शसोः स्थाने सानुनासिकसानुस्वाराविकारौ णिश्चादेशा भवन्ति सप्राग्दीर्घाः । एषु सत्सु पूर्वस्वरस्य दीर्घत्वं विधीयते इत्यर्थः ॥ इँ । जाइँ वयणाइँ अम्हे || हूं | उम्मीलन्ति पङ्कयाई पच्छ वा चिट्ठन्ति । दहीहं जेम का हुन्ति महूई मुञ्च वा ॥ णि । फुल्लन्ति पक्कयाणि गेण्ह वा । हुन्ति दहीणि जेम वा । एवं महूणि ॥ क्लब इत्येव । वच्छा वच्छे ।। जस्-शस इति किम् । सुहं ॥ २६ ॥ स्त्रियामुदोतौ वा || ८|३|२७ ॥
स्त्रियां वर्तमानान्नाम्नः परयोर्जस् - शसो : स्थाने प्रत्येकम् उत् ओत् इत्येतौ सप्राग्दीर्घौ वा भवतः ॥ वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥ मालाउ मालाओ । बुद्धीउ बुद्धीओ । सहीउ सहीओ । घेणूड घेणूओ । बहूउ बहूओ । पक्षे । माला । बुद्धी । सही । घेणू । वहू ॥ स्त्रियामिति किम् । चच्छा । जस्-शस इत्येव । मालाए कयं ॥ २७ ॥
ईतः सेवा वा || ८|३ | २८ ॥
स्त्रियां वर्तमानादीकारान्तात् सेर्जस्-शसोश्च स्थाने आकारो वा भवति ।। एसा हसन्ती । गोरीआ चिट्ठन्ति पेच्छ वा । पक्षे । हसन्ती । गोरीओ ॥ २८ ॥
टा-इस्-डेरदादिदेद्वा तु ङसेः || ८ | ३|२९ ॥
स्त्रियां वर्तमानान्नाम्नः परेषां टाङस्ङीनां स्थाने प्रत्येकम् अत् आत् इत् एत् इत्येते चत्वार आदेशाः सप्राग्दीर्घा भवन्ति । ङसेः पुनरेते सप्राग्दीर्घा वा भवन्ति ॥ मुद्धाअ । मुद्धाइ । मुद्धा कयं मुहं ठिअं वा ॥ कप्रत्यये तु मुद्धिआअ । मुद्धिआइ । मुद्धिआए । कमलिआअ । कमालआइ । कमलिआए । बुद्धीअ । बुद्धीआ । बुद्धीइ । बुद्धीए कयं चिहओ ठि वा ॥ सहीअ । सहीआ । सहीइ । सहीए कयं वयणं ठिअं वा ॥
1