________________
७०
प्राकृतव्याकरणम् [सू. ८-२-२०७
मणे विमर्श ॥ ८।२।२०७॥ मणे इति विमर्शे प्रयोक्तव्यम् ॥ मणे सूरो । किं स्वित्सूर्यः ॥ अन्ये. मन्ये इत्यर्थमपीच्छन्ति ॥ २०७॥
अम्मो आश्चर्ये ॥ ८।२।२०८॥ अम्मो इत्याश्चर्ये प्रयोक्तव्यम् ॥ अम्मो कह पारिजइ ॥ २०८ ॥
स्वयमोर्थे अप्पण्णो न वा ॥८।२।२०९॥ स्वयमित्यस्यार्थे अप्पणो वा प्रयोक्तव्यम् ॥ विसयं विसअन्ति अप्पणो. कमल-सरा । पक्षे । सयं चेअ मुणसि करणिज्जं ॥ २०९ ॥
प्रत्येकमः पाडिकं पाडिएकं ॥८।२।२१०॥ प्रत्येकमित्यस्यार्थे पाडिकं पाडिएकं इति च प्रयोक्तव्यं वा ॥ पाडिक्कं । पाडिएक्कं । पक्षे । पत्ते ॥ २१० ॥
उअ पश्य ॥८।२।२११॥ उअ इति पश्येत्यस्यार्थे प्रयोक्तप्यं वा ॥
उअ निच्चलनित्कंदा भिसिणीपत्तंमि रेहइ बलाआ ।
निम्मल-मरगय-भायण-परिट्रिआ संख-सुत्ति व्व ॥ पक्षे पुलआदयः ॥ २११ ॥
इहरा इतरथा ॥ ८२।२१२॥ इहरा इति इतरथार्थे प्रयोक्तव्यं वा ॥ इहरा नीसामन्नेहिं । पक्षे । इअरहा ॥ २१२॥
एक्कसरि झगिति संप्रति ॥ ८॥२।२१३ ॥ एक्कसरि झगित्यर्थे संप्रत्यर्थे च प्रयोक्तव्यम् ॥ एक्कसरिअं । झगिति सांप्रतं वा ॥ २१३ ॥
मारउल्ला मुधा ॥८॥२।२१४॥' मोरउल्ला इति मुधार्थे प्रयोक्तव्यम् ॥ मोरउल्ला । मुधेत्यर्थः ॥ २१४ ॥
दरार्धाल्पे ॥ ८॥२।२१५॥ ' दर इत्यव्ययमर्धार्थे ईषदर्थे च प्रयोक्तव्यम् ॥ दर-विअसि । अर्धेनेषद्वा विकसितमित्यर्थः ॥ २१५ ॥