________________
ग. ८-२-२०६] स्वोपनवृत्तिसहितम्
ओ सूचना-पश्चात्तापे ॥ ८ । २ । २०३॥ ओ इति सूचनापश्चात्तापयोः प्रयोक्तव्यम् ॥ सूचनायाम् । ओ अवियय-तत्तिल्ले ।। पश्चात्तापे । ओ न मए छाया इत्तिआए. ॥ विकल्पे तु उतादेशेनैवीकारेण सिद्धम् ।। ओ विरएमि- नहयले ॥ २०३ ।। अव्वो सूचना-दुःख-संभाषणापराध-विस्मयानन्दादर-भय
खेद-विषाद-पश्चात्तापे ॥८।२।२०४॥ अव्वो इति सूचनादिषु प्रयोक्तव्यम् ॥ सूचनायाम् । अव्वो दुक्करयारय । दुःखे । अव्वो दलन्ति हिययं ।। संभाषणे । अव्वो किमिणं किमिणं ।। अपराधविस्मययोः ।
अव्वो हरन्ति हिअयं तहवि न वेसा हवन्ति जुवईण । अव्वो किंपि रहस्सं मुणन्ति धुत्ता जणब्भहिआ ॥ आनन्दादरभयेषु । अव्वो सुपहायमिणं अव्वो अज्जम्ह सप्फलं जी।
अव्वो अइअम्मि तुमे नवरं जइ सा न जूरिहिइ ।। "खेले । अव्यो न जामि छेत्तं ।
विषादे। अव्वो नासेन्ति दिहिं पुलयं वड्डेन्ति देन्ति रणरणयं । एहि तस्सेअ गुणा ते च्चिअ अव्वो कह णु एअं॥ पश्चात्तापे । अव्वो तह तेण कया अहयं जह कस्य साहेमि ॥२०४॥
___ अइ संभावने ॥ ८।२।२०५॥ संभावने अइ इति प्रयोक्तव्यम् ॥ अइ दिअर किं न पेच्छसि ॥२०५॥
वणे निश्चय-विकल्पानुकम्प्ये च ॥ ८॥२।२०६॥ वणे इति निश्चयादौ संभावने च प्रयोक्तव्यम् ॥ वणे देमि । निश्चय ददामि ॥ विकल्पे । होई वणे न होइ । भवति वा न भवति ॥ अनुकम्प्ये । दासो वणे न मुच्चइ । दासोनुकम्प्यो न त्यज्यते ॥ संभावने । नत्थि वणे जं न देइ विहि-परिणामो । संभाव्यते एतदित्यर्थः ॥२०६॥