________________
६८
प्राकृतव्याकरणम् [म. ८-२-१९६ पणवह माणस्स हला । हले हयासस्स । पक्षे । सहि एरिसि चित्र गई ।। १९५ ॥
दे संमुखीकरणे च ॥ ८।२।१९६ ॥ संमुखीकरणे सख्या आमन्त्रणे च दे इति प्रयोक्तव्यम् ॥ दे पसिअ ताव सुन्दरि ॥ दे आ पसिअ निअत्तसु ॥ १९६ ॥ ... हुं दान-पृच्छा-निवारणे ॥ ८।२।१९७ ॥
हुं इति दानादिषु प्रयुज्यते ॥ दाने । हुं गेण्ह अप्पणो चिअ ॥ पृच्छायाम् । हुं साहसु सन्मावं ॥ निवारणे । हुं निल्लज्ज समोसर ॥१९७॥
हु खु निश्चय-वितर्क-संभावन विस्मये ।।८।२।१९८॥ हु खु इत्येतौ निश्चयादिषु प्रयोक्तव्यौ ॥ निश्चये । तपि हु अछिन्निसरी । तं खु सिरीए रहस्सं ॥ वितर्कः ऊहः संशयो वा । कहे । न हु णेवर संगहिआ । एअं खु हसइ ॥ संशये । जलहरो खु धूमवडलो खु ॥ संभावने। तउि ण हु णवर इमं । एवं खु हसइ ॥ विस्मये । को खु एसो सहस्ससिरो। बहुलाधिकारादनुस्वारात्परो हुर्न प्रयोक्तव्यः ॥ १९८ ॥
ऊ गर्दाक्षेप-विस्मय-पूचने ॥ ८।२।१९९ ॥ ऊ इति गर्दादिषु प्रयोक्तव्यम् ॥ गरे । ऊ णिल्लज्ज ॥ प्रक्रान्तस्य वाक्यस्य विपर्यासाशङ्काया विनिवर्तनलक्षण आक्षेपः ॥ ऊ किं मए भणि॥ विस्मये । ऊ कह मुणिआ अहयं ॥ सूचने । ऊ केण न विण्णाय।।१९९॥
थू कुत्सायाम् ॥ ८ । २ । २०० ॥ थ् इति कुत्सायां प्रयोक्तव्यम् ॥ थू निल्लज्जो लोओ ॥ २०० ॥
रे अरे संभाषण-रतिकलहे ॥ ८ । २ । २०१॥ अनयोरर्थयोर्यथासंख्यमेतौ प्रयोक्तव्यौ ॥रे संभाषणे । रे हिअह मडहसरिआ ॥ अरे रतिकलहे । अरे मए समं मा करेसु उवहासं ॥ २०१॥
हरे क्षेपे च ॥ ८ । २ । २०२॥ क्षेपे संभावणरतिकलहयोश्च हरे इति प्रयोक्तव्यम् ॥ क्षेपे । हरे णिलजा संभाषणे । हरे पुरिसा ॥ रतिकलहे । हरे बहु-वल्लह ॥ २०२ ।।