________________
सू. ८-२-१९५] स्वोषज्ञवृत्तिसहितम्
आनन्तये णवरि ॥ ८।२।१८८ ॥ ___ आनन्तर्ये णवरीति प्रयोक्तव्यम् ।। णवरि अ से रहु-वइणा ॥ केचित्तु केवलानन्तर्यार्थयोर्णवरणवरि इत्येकमेव सूत्रं कुर्वते तन्मते उभावप्युभयार्थौ ॥ १८८ ॥
अलाहि निवारणे ॥ ८।२।१८९ ॥ अलाहीति निवारणे प्रयोक्तव्यम् ॥ अलाहि किं वाइएण लेहेण ॥१८९॥
अण णाई नार्थे ।। ८।२।१९० ॥ " अण णाई इत्येतौ नोर्थे प्रयोक्तव्यौ ॥ अणचिन्तिअममुणन्ती । णाई करेमि रोसं ॥ १९० ॥
माइं मार्थे ॥ ८।२।१९१॥ माइं इति मार्थे प्रयोक्तव्यम् ॥ माई काहीअ रोसं । मा कार्षीद् रोषम् ॥ १९१ ॥
हद्धी निर्वेदे ॥ ८।२।१८२ ॥ हद्धी इत्यव्ययमतएव निर्देशात् हाधिक्शब्दादेशो वा निर्वेदे प्रयोक्तव्यम् ।। हूद्धीहद्धी । हा धाहधाह ।। १९२॥
वेव्वे भय-वारण-विषादे ॥ ८।२।१९३ ॥ भयवारणविषादेषु वेव्वे इति प्रयोक्तव्यम् ॥
वेव्वेत्ति भये वेव्वेत्ति वारणे जूरणे अ वेव्वेत्ति । उल्लाविरीइ वि तुहं वेव्वेत्ति मयच्छि किं णे ॥ किं उल्लावेन्तीए उअ जूरन्तीएँ किं तु भीआए। उव्वाडिरीए वेव्वेत्ति तीऍ भाणि न विम्हरिमो ॥ १९३ ॥
वेव्व च आमन्त्रणे ॥ ८।२।१९४ ॥ 'वेव्व वेव्वे च आमन्त्रणे प्रयोक्तव्ये ॥ वेब्वे गोले । वेव्वे मुरन्दले वहसि पाणि ॥ १९४ ॥
मामि हला हले सख्या वा ॥ ८।२।१९५ ।। एते सख्या आमन्त्रणे वा प्रयोक्तव्याः॥ मामि सरिसक्खराण वि.