________________
६६
[ सू. ८-२-१८१
प्राकृतव्याकरणम्
हन्दि चलणे णओ सो न माणिओ हन्दि हुज्ज एत्ताहे । हन्दि न होही भारी सा सिज्जइ हन्दि तुह कज्जे ॥ हन्दि । सत्यमित्यर्थः ॥ १८० ॥
हद च गृहाणार्थे || ८।२।१८१ ॥
हन्द हन्दि च गृहाणार्थे प्रयोक्तव्यम् || हन्द पलोएस इमं । हन्दि । गृहाणेत्यर्थः ॥ १८१ ॥
मिव पिव विव व्व व विअ इवार्थे वा ॥ ८|२| १८२ ॥ एते इवार्थे अव्ययसंज्ञकाः प्राकृते वा प्रयुज्यन्ते ॥ कुमुअं मिव । चन्दणं पिव | हंसो विव । साअरो व्व खीरोओ । सेसस्स व निम्मोओ । कमलं विअ । पक्षे । नीलुप्पल-माला इव ॥ १८२ ॥ जेण तेण लक्षणे || ८।२।१८३ ॥
जेण ते इत्येतौ लक्षणे प्रयोक्तव्यौ ॥ भमर-रुअं जेण कमल-वणं ॥ भमर-रूअं तेण कमल-त्रणं ॥ १८३ ॥
इ ar चिच्च अवधारणे ॥ ८।२।१८४ ॥
एतेवधारणे प्रयोक्तव्याः ॥ गईए इ । जं चेअ मंडलणं लोअणाणं । अणुबद्धं तं चिअ कामिणीणं || सेवादित्वाद् द्वित्वमपि । ते चि धन्ना । dar सुपुरिसा । च । स च य रूवेण । स च सीलेण ॥ १८४ ॥ बले निर्धारण - निश्चययोः ॥ ८।२।१८५ ॥
बले इति निर्धारणे निश्चये च प्रयोक्तव्यम् ॥ निर्धारणे । बले पुरिसो घणंजओ खत्तिआणं ॥ निश्चये । बले सीहो । सिंह एवायम् ॥ १८५ ॥ किरेर हिर किलार्थे वा ॥ ८|२|१८६ ॥
किर इर हिर इत्येते किलार्थे वा प्रयोक्तव्याः ॥ कल्लं किर खरहिओ । तस्स इर । पिअ - त्रयंसो हिर । पक्षे । एवं किल तेण सिविणए भणिआ || १८६ ॥
वर केवले || ८|२| १८७ ॥
केवलार्थे णवर इति प्रयोक्तव्यम् ॥ णवर पिआई चिअ णिव्वडन्ति ॥ १८७ ॥