________________
सू.८-२-१७२ ] स्वोपज्ञवृत्तिसहितम् ककारोच्चारणं पैशाचिकभाषार्थम् । यथा । वतनके वतनकं समप्पेत्तून ॥ इल्ल । निजिआसोअ-पल्लविल्लेणं । पुरिल्लो । पुरा पुरो वा ॥ उल्ल । मह पिउल्लओ । मुहुल्लं । हत्थुल्ला । पक्षे । चन्दो। गयणं । इह । आलेहूं । बहु । बहुअं । मुहं । हत्वा ॥ कुत्सादिविशिष्टे तु संस्कृतवदेव कप् सिद्धः।। यावादिलक्षणः कः प्रतिनियतविषय एवेति वचनम् ॥ १६४ ॥
ल्लो नवैकाद्वा ॥ ८।२।१६५ ॥ आभ्यां स्वार्थे संयुक्तो लो वा भवति ॥ नवल्लो । एकल्लो ॥ सेवादित्वात् कस्य द्वित्वे एक्ल्लो ॥ पक्षे । नवो । एक्को । एओ ॥१६५॥
. उपरेः संव्याने ॥ ८।२।१६६ ॥ • संव्यानेर्थे वर्तनानादुपरिशब्दात् स्वार्थे लो भवति ॥ अवरिलो ।। सव्यान इति किम् । अवरिं ॥ १६६ ॥ : , : भ्रवो मया डमया ॥ २११६७॥ , भ्रूशब्दात्स्वार्थे मया डमया इत्येतौ प्रत्ययौ भवतः ॥ भुमया । भमया ॥ १६७ ॥
- शनसो डिअम् ॥ ८।२।१६८ ॥ । शनैस्शब्दात्स्वार्थे डिअम् भवति ॥ सणिअमवगूढो ॥ १६८ ॥
: मनाको न वा डयं च ॥ ८।२।१६९ ॥ मनाक्शब्दात्स्वार्थे डयम् डिअम् च प्रत्ययो वा भवति ॥ मणय । मणियं । पक्षे । मणा ॥ १६९ ॥
. मिश्राड्डालिअः ॥ ८।२।१७०॥ ': मिश्रशब्दात्स्वार्थे डालिअः प्रत्ययो वा भवति ॥ मीसालिअं । पक्षे । मीसं ॥ १७०॥
रो दीर्घात् ॥ ८।२।१७१॥ । दीर्घशब्दात्परः स्वार्थे रो वा भवति ॥ दीहरं दीहं ॥ १७१ ॥
त्वादेः सः॥ ८।२।१७२ ॥ 'भावे त्व-तलं ' (हे० ७-१-५५) इत्यादिना विहितात्त्वादेः परः