________________
मू. ८-१-१५८] स्वोपत्रवृत्तिसहितम्
!' ईयस्यात्मनो णयः॥ ८।२।१५२ ।। . ... , आत्मनः परस्य ईयस्य णय इत्यादेशो भवति ॥ आत्मीयम् । अप्पण ॥ १५३ ॥ 1 . त्वस्य डिमा-तणौ वा ।। ८।२।१५४ ॥ .
त्वप्रत्ययस्य डिमा तण इत्यादेशी वा भवतः ॥ पीणिमा । पुप्फिमा । पीणत्तणं । पुप्फत्तणं । पक्षे । पीणत्तं । पुप्फत्तं ॥ इम्नः पृथ्वादिषु नियतत्वात् तदन्यप्रत्ययान्तेषु अस्य विधिः ॥ पीनता इत्यस्य प्राकृते पीणया इति भवति । पीणदा इति तु भाषान्तरे । तेनेह तलो दा न क्रियते ॥ १५४ ।।
अनकोठात्तैलस्य डेल्लः ॥ ८।२।१५५ ॥ . अकोठवर्जिताच्छब्दात्परस्य तैंलप्रत्ययस्य डेल्ल इत्यादेशो भवति ॥ सुरहि-जलेण कडुएल्लं ॥ अनकोठादिति किम् । अङ्कोल्लतल्लं ॥ १५५ ॥
यत्तदेतदोतोरित्तिभ एतल्लुक् च ॥ ८।२।१५६ ॥ एभ्यः परस्य डावादेरतोः परिणामार्थस्य इत्तिअ इत्यादेशो भवति एतदो लुक् च ।। यावत् । जित्तिरं ॥ तावत् । तित्तिरं ॥ एतावत् । इत्तिसं ॥ १५६ ॥
इदंकिमश्च डेत्तिअ-डेत्तिल-डेदहाः ॥ ८।२।१५७॥ .. इदंकिंभ्यां यत्तदेतद्यश्च परस्यातोर्डावतोर्वा डित एत्तिअ एत्तिल- एदह इत्यादेशा भवन्ति एतल्लुक् च ।। इयत् । एत्तिअं । एत्तिलं । एद्दहं ।। कियत् । केत्ति । केत्तिलं । केद्दहं ॥ यावत् । जेतिरं । जेत्तिलं । जेद्दहं ॥ तावत् । तेत्ति । तेत्तिलं । तेहं ॥ एतावत् । एत्तिअं । एत्तिलं । एदहं ॥ १५७ ॥
: ।
कृत्वसो हुत्तं ॥ ८।२।१५८ ॥ -वारे कृत्वस्' (हे० ७-२-१०९) इति यः कृत्वस् विहितस्तस्य हुत्तमित्यादेशों भवति ॥ सबहुतं । सहस्सहुत्तं ॥ कथं . प्रियाभिमुख पियहुतं । अभिमुखार्थेन हुत्तशब्देन भविष्यति ॥ १५८ ॥ ..