SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ मू. ८-२-१४५] स्वोपज्ञवृत्तिसहितम् मलिनोभय-शुक्ति-छुप्तारब्ध-पदातेमइलावह-सिप्पि-छिक्का-ढत-पाइक ॥ ८।२।१३८ ॥ __ मलिनादीनां यथासंख्यं . मइलाय आदेशा वा भवन्ति ॥ मलिन । मइलं मलिणं ॥ उभय । अवहं । उवहमित्यपि- केचित् । अवहोआसं । उभयबलं । आर्षे । उभयोकालं ॥ शुक्त । सिप्पी सुत्ती ॥ छुप्त । छिक्को छुत्तो ।। आरब्ध । आढत्तो आरद्धो ॥ पदाति । पाइको-पयाई ।। १३८ । .... दंष्ट्राया दाढा ॥-८२।१३९ ॥ .. : पृथग्योगाद्वेति निवृत्तम् । दंष्ट्राशब्दस्य दाढा इत्यादेशो भवति ॥ दाढा । अयं संस्कृतेपि ॥ १३९ ।। " बहिसो बाहिं-बाहिरा ॥ ८१२।१४०॥ ___ बहिःशब्दस्य बाहिं बाहिर इत्यादेशो भवतः ॥ बाहिं बाहिरं ॥ १४०॥ .. अधसो हेढें ॥ ८।२।१४१॥ .... , ' अधस्शब्दस्य हे? इत्ययमादेशो भवति ॥ हेढें ॥ १४१ ॥ __मातृ-पितुः स्वसुः सिआ-छौ ।। ८।२।१४२॥ , .. मातृपितृभ्यां परस्य स्वसृशब्दस्य सिआ छा इत्यादेशो भवतः ॥ माउसिआ । माउ-च्छा । पिउ-सिआ । पिउ-च्छा ।। १४२. ॥ . .. तिर्यचस्तिरिच्छिः ॥ ८२१४३॥ -:तिर्यचशब्दस्य तिरिच्छिरित्यादेशो भवति ॥ तिरिच्छि पेच्छइ ॥ आर्षे तिरिआ इत्यादेशोपि । तिरिआ ॥ १४३ ॥ गृहस्य घरोपतौ ॥ ८।२।१४४ ॥ 5. गृहशब्दस्य घर इत्यादेशो भवति पतिशब्दश्चेत् परो न भवति ।। घरो। घर-सामी । राय-हरं ॥ अपताविति किम् । गह-वई ॥ १४४ ॥ . शीलाद्यर्थस्येरः ॥ ८॥२॥१४५॥ शीलधर्मसाध्वर्थे विहितस्य प्रत्ययस्य इर इत्यादेशो भवति ॥ हसनशीलः हसिरो । रोविरो । लज्जिरो। जम्पिरो । वेविरो । भमिरो । ऊसंसिरो ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy