SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् [सू. ८-१-१२८ वनिताया विलया ॥ ८।२।१२८ ॥ वनिताशब्दस्य विलया इत्यादेशो वा भवति ॥ विलया वणिआ ॥ विलयेतिसंस्कृतेपीति केचित् ॥ १२८ ॥ . . - गौणस्येषतः कूरः ॥ ८।२।१२९ ॥ . ईषच्छब्दस्य गौणस्य कूर इत्यादेशो वा भवति ॥ चिंच व्व कूर-पिक्का । पक्षे । ईसि ॥ १२९ ॥ : स्त्रिया इत्थी ॥ ८।२।१३० ॥ .::: स्त्रीशब्दस्य इत्थी इत्यादेशो वा भवति ॥ इत्थी थी ॥ १३० ॥ धृतेर्दिहिः ॥ ८।२।१३१ ॥ 'धृतिशब्दस्य दिहिरित्यादेशो वा भवति ॥ दिही धिई ॥ १३१ ॥ ।.मार्जारस्य मञ्जर-बञ्जरौ ॥ ८।२।१३२ ॥ मार्जारशब्दस्य मञ्जर वञ्जर इत्यादेशौ वा भवतः ।। मञ्जरो वञ्जरो। पक्षे । मज्जारो ॥ १३२ ॥ .... वैडूर्यस्य वेरुलिअं॥ ८।२।१.३३ ॥ वैडूर्यशब्दस्य वेरुलिअ इत्यादेशो वा भवति ॥ वेरुलिअं । वेडुजं ॥ १३३ ॥ - । एहि एत्ताहे इदानीमः ।। ८।२।१३४ ॥ अस्य एतावादेशौ वा भवतः ॥ एण्हि । एत्ताहे । इआणि ॥ १३४ ॥ पूर्वस्य पुरिमः॥ ८।२।१३५ ॥ । पूर्वस्य स्थाने पुरिम इत्यादेशो वा भवति ॥ पुरिमं पुव्वं ॥ १३५ ॥ त्रस्तस्य हित्थ-तद्वौ ॥ ८।२।१३६ ॥ त्रस्तशब्दस्य हित्थ त? इत्यादेशौ वा भवतः ॥ हित्थं तद्वं तत्थं ॥ १३६॥ बृहस्पतौ बहो भयः॥ ८।२।१३७॥ " "बृहस्पतिशब्दे बह इत्यस्यावयवस्य भय इत्यादेशो वा भवति ॥ भयस्सई भयप्फई भयप्पई ॥ पक्षे । बहस्सई । बहप्फई । बहप्पई ॥ 'वा बृहस्पतो' (८-१-१३८ ) इति इकारे उकारे च बिहस्सई । बिहप्फई । बिहप्पई । बुहस्सई । बुहष्फई । बुहम्फई ॥ १३७ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy