________________
सू. ८-२-१२७] स्वोपनवृत्तिसहितम्
५७ महाराष्ट्रे ह-रोः ।। ८।२।११९॥ .. महाराष्ट्रशब्दे हरोर्व्यत्ययो भवति ॥ मरहट्ठ ॥ ११९ ॥
हदे ह-दोः ।। ८।२।१२० ॥ हृदशब्दे हकारदकारयोर्व्यत्ययो भवति ॥ द्रहो ॥ आर्षे । हरए महपुण्डरिए ॥ १२० ॥
हरिताले र-लोर्न वा ॥ ८।२।१२१॥ हरितालशब्दे रकारलकारयोर्व्यत्ययो वा भवति ॥ हलिआरो हरिभालो ॥ १२१ ॥
लघुके ल-होः ॥ ८।२।१२२ ॥ लघुकशब्दे घस्य ह्त्वे कृते लहोर्व्यत्ययो वा भवति ।। हलुअं। लहुअं॥ घस्य व्यत्यये कृते पदादित्वात् हो न प्रामोतीति हकरणम् ॥ १२२॥
ललाटे ल--डोः ॥ ८।२।१२३ ॥ __ ललाटशब्दे लकारडकारयोर्व्यत्ययो भवति वा ॥ णडालं । णलाडं । 'ललाटे च' (८-१-२५७ ) इति आदेर्लस्य णत्वविधानादिह द्वितीयो लः स्थानी ।। १२३ ॥
ह्ये ह्योः ॥ ८।२।१२४ ॥ ह्यशब्दे हकारयकारयोर्व्यत्ययो वा भवति ॥ गुह्यम् । गुहं । गुज्झं ॥ सह्यः । सय्हो सज्झो । १२४ ॥
स्तोकस्य थोक-थोव-थेवाः ॥ ८।२।१२५ ॥ .. स्तोकशब्दस्य एते त्रय आदेशा भवन्ति वा ॥ थोक्कं थोवं थेवं । पक्षे । थोरं ॥ १२५ ॥ . . . . . - . . . . दुहित--भगिन्योपुंआ-बहिण्यौ ॥ ८।२।१२६ ॥ . . अनयोरेतावादेशौ वा भवतः ॥ धूआ दुहिआ। बहिणी भइणी ॥१२६॥
. वृक्ष-क्षिप्तयो रुक्ख-छूढौ ॥ ८।२।१२७॥ वृक्ष-क्षिप्तयोर्यथासंख्यं रुक्ख छूढ इत्यादेशौ वा. भवतः ॥ रुक्खो वच्छो । छूटं खित्तं । उच्छूढं । उक्खित्तं ॥ १२७ ॥ ....