________________
प्राकृतव्याकरणम् [सू. ८-१-१११ कसणो कसिणो कण्हो ॥ वर्ण इति किम् ॥ विष्णौ कण्हो ॥ ११० ॥
उच्चाहतः ॥ ८।२।१११ ॥ अर्हत्-शब्दे संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उत् अदितौ च भवतः ॥ अदितौ च भवतः ॥ अरुहो अरहो अरिहो । अरुहन्तो अरहन्तो अरिहन्तो ॥ १११ ॥ - पद्म-छद्म-मूर्ख-द्वारे वा ।। ८।२।११२ ॥
एषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उद् वा भवति ॥ पउमं पोम्मं । छउमं । छम्मं । मुरुक्खो मुक्खो । दुवारं । पक्षे । वारं । देरं । दारं ॥ ११२ ॥
तन्वीतुल्येषु ॥ ८।२।११३ ॥ ___ उकारान्ता ङीप्रत्ययान्तास्तन्वीतुल्याः । तेषु संयुक्तस्यान्त्यव्यजनात् पूर्व उकारो भवति ॥ तणुवी । लहुवी । गुरुवी । बहुवी। पुहुवी । मउंवी ॥ कचिदन्यत्रापि । सुघ्नम् । सुरुग्धं ॥ आर्षे । सूक्ष्मम् । सुहुमं ॥ ११३ ॥
एकस्वरे श्वः-स्वे ॥ ८।२।११४॥ । एकस्वरे पदे यौ श्वस् स्व इत्येतौ तयोरन्त्यव्यञ्जनात्पूर्व उद् भवति ॥ श्वः कृतम् । सुवे कयं ॥ स्वे जनाः । सुवे जणा। एकस्वर इति किम् । स्व-जनः । स--यणो ॥ ११४ ॥
ज्यायामीत् ॥ ८॥२।११५ ॥ . : ज्याशब्दे अन्त्यव्यञ्जनात्पूर्व ईद् भवति ॥ जीआ॥ ११५ ॥
___ करेणू-धाराणस्यो र-णोर्व्यत्ययः ॥ ८।२।११६ ॥
अनयो रेफणकारयोर्व्यत्ययः स्थितिपरिवृत्तिर्भवति ॥ कणेरू । वाणारसी ॥ स्त्रीलिङ्गनिर्देशात्पुसि न भवति । एसो करेणू ॥ ११६ ॥
आलाने लनोः ॥ ८।२।११७ ॥ आलानशब्दे लनोर्व्यत्ययो भवति ॥ आणालो । आणाल-क्खम्भो ॥ ११७ ॥
अचलप्पुरे, च-लोः ॥ ८॥२॥११८ ॥ !! : अचलपुरशब्दे चकारलकारयोर्व्यत्ययो भवति ॥ अलचपुरं ॥ ११८ ॥
IF