________________
सू. ८-१-२९८] स्त्रोपज्ञवृत्तिसहितम् .:. न दीर्घानुस्वारात् ।। ८१२२९२ ॥
दीर्घानुस्वाराभ्यां लाक्षणिकाभ्यामलाक्षणिकाभ्यां च परयोः शेषादेशयोर्द्वित्वं न भवति ॥ छूढो । नीसासो । फासो ॥ अलाक्षणिक । पार्थम् । पासं ॥ शीर्षम् । सीसं ॥ ईश्वरः । ईसरो ॥ द्वेप्यः । वेसो. ॥ लास्यम् । लासं ॥ आस्यम् । आसं ॥ प्रेष्यः । पेसो ॥ अवमाल्यम् । ओमालं ॥ आज्ञा । आणा ॥ आज्ञप्तिः । आणत्ती ॥ आज्ञपनं । आणवणं ॥ अनुस्वारात् । त्र्यसम् । तंसं ॥ अलाक्षणिक । संझा । विंझो । कंसालो ॥ ९२ ॥
र-होः॥ ८२।९३॥ रेफहकारयोर्द्वित्वं न भवति ॥ रेफः शेषो नास्ति ॥ आदेश । सुन्देरं । बमचेरं । परन्तं ॥ शेषस्य हस्य । विहलो ॥ आदेशस्य । कहावणो ॥ ९३ ॥
धृष्टद्युम्ने णः॥८।२।९४॥ . धृष्टद्युम्नशब्दे आदेशस्य णस्य द्वित्वं न भवति ॥ धदज्जुणो ॥ ९४॥
कर्णिकारे वा ॥८॥२॥ ९५ ॥ कर्णिकारशब्दे शेषस्य णस्य द्वित्वं वा न भवति ॥ कणिआरो कण्णि'भारो ॥ ९५॥
___ दृप्से ॥ ८।२९६ ॥ दृप्तशब्दे शेषस्य द्वित्वं न भवति ॥ दरिअ-सीहेण ॥ ९६ ॥
समासे वा. ॥
८९७॥ शेषादेशयोः समासे द्वित्वं वा भवति॥नइ-ग्गामो नइ-गामो । कुसुम-प्पयरो कुसुम-पयरों । देव-त्थुई । देव-थुई । हर-क्खन्दा हरखन्दा । आणाल-क्खम्भो आणाल-खम्भो । बहुलाधिकारादशेषादेशयोरपि । स-पिवासो स-प्पिवासो । बद्ध-फलो बद्ध-प्फलो । मलय-सिहर-क्खण्डं मलय-सिहर-खण्डं । पम्मुक्कं पमुक्कं । अइंसणं अदंसणं । पडिक्कूलं पडिकूलं । तेल्लोक्कं तेलोक्कं इत्यादि ॥९७ ॥.
तैलादौ ॥ ८१२९८॥ तैलादिषु अमादौ यथादर्शनमन्त्यस्यानन्त्यस्य च व्यञ्जनस्य द्वित्वं