________________
प्राकृतव्याकरणम् [सू. ८-२-३९
स्तब्धे ठ-ढौ ॥ ८।२।३९ ॥ स्तब्धे संयुक्तयोर्यथाक्रमं ठढौ भवतः ॥ ठड्डो ॥ ३९ ॥
दग्ध-विदग्ध-वृद्धि-वृद्धे ढः ॥ ८।२।४० ॥ एषु संयुक्तस्य ढो भवति ॥ दड्डो । विअड्डो । वुड्डी । वुडो ॥ क्वचिन्न भवति । विद्ध-कइ-निरूविरं ॥ ४० ॥
श्रद्धर्द्धि-मूर्धाधन्ते वा ॥ ८।२।४१ ॥ एषु अन्ते वर्तमानस्य संयुक्तस्य ढो वा भवति ॥ सड्ढा सद्धा । इड्डी रिद्धी । मुण्ढा मुद्धा । अड्डूं अद्धं ॥ ४१ ॥
नज्ञोर्णः ॥ ८।२।४ ॥ अनयोर्णो भवति ॥ न । निणं । पज्जुण्णो ॥ ज्ञ । णाणं । सण्णा । अण्णा । विण्णाणं ॥ ४२ ॥
पंचाशत्पंचदश-दत्ते ॥ ८।२।४३ ॥ एषु संयुक्तस्य णो भवति ॥ पण्णासा । पण्णरह । दिणं ॥ ४३ ॥
भन्यौ न्तो वा ॥ ८।२।४४ ॥ मन्युशब्दे संयुक्तस्य न्तो वा भवति ॥ मन्तू मन्नू ॥ ४४ ॥
स्तस्य थोस स्त-स्तम्बे ॥ ८।२।४५ ॥ समस्तस्तम्बवर्जिते स्तस्य थो भवति ॥ हत्थो । थुई । थोत्तं । थोअं। पत्थरो । पसत्थो । अस्थि । सत्थि ॥ असमस्तस्तम्ब इति किम् । समत्तो तम्बो ॥ ४५॥
स्तवे ॥ ८।२।४६॥ स्तवशब्दे स्तस्य थो वा भवति ॥ थवो तवो ॥ ४६ ॥
पर्यस्ते थ-टौ ॥ ८॥२॥४७॥ पर्यस्ते स्तस्य पर्यायेण थटौ भवतः ॥ पल्लत्थो पल्लट्टो ॥ ४७ ॥
वोत्साहे थो हश्च रः ॥ ८।२।४८ ॥ उत्साहशब्दे संयुक्तस्य थो वा भवति तत्सन्नियोगे च हस्य रः॥ उत्थारो । उच्छाहो ॥ ४८ ॥